1 हलन्त्यम् 1.3.3
अनुवृत्तिः उपदेशे, इत्
अर्थः उपदेशेऽन्त्यं हल् इत्संज्ञकं भवति।
उदाहरणः अ इ उण् इति णकारस्य। ऋलृक् इति ककारस्य।
टिप्पणि: हस्य ल् हल् षष्ठीतत्पुरुषः। हल् च हल् च = हल् सरूपाणामित्यनेन एकशेषः, जातिविवक्षायामेकवचनञ्च, अनया रीत्या हल् प्रत्याहारो निष्पद्यते।
“धातु सूत्र गणोणादि वाक्य लिङ्गानुशासनम् ।
आगम प्रत्ययादेशा उपदेशः प्रकीर्तितः ॥” इत्यभियुक्तोक्तं वेदितव्यम्।
2 अदर्शनं लोपः 1.1.60
अनुवृत्तिः इति
अर्थः यद् भूत्वा न भवति तद् अदर्शनं (= अनुपलब्धिः) वर्णविनाशस्तस्य लोप इति संज्ञा भवति, अर्थात् प्रसक्तस्यादर्शनं लोपसंज्ञकं भवति।
उदाहरण:
टिप्पणि: अर्थस्येयं संज्ञा न शब्दस्य।
3 तस्य लोपः 1.3.9
अनुवृत्तिः
अर्थः तस्येत्संज्ञकस्य लोपो भवति।
उदाहरण:
टिप्पणिः
4 आदिरन्त्येन सहेता 1.1.71
अनुवृत्तिः स्वं रूपम्
अर्थः आदिः अन्त्येन इता (इत्संज्ञकेन वर्णेन) सह तयोर्मध्यस्थानां स्वस्य च रूपस्य ग्राहको भवति।
उदाहरण: अण् = अ इ उ। अक् = अ इ उ ऋ लृ। अच् = अ इ उ ऋ लृ ए ओ ऐ औ।
टिप्पणिः
| शिवसूत्र | प्रत्याहार |
| अ इ उण् | अण् |
| ऋ लृक् | अक्, इक्, उक् |
| ए ओंङ् | एङ् |
| ऐ औच् | अच्, इच्, एच्, ऎच् |
| ह य व रट् | अट् |
| लण् | अण्,इण्, उण्, यण् |
| ञ म ङ ण नम् | अम्, यम्, ङम्, ञम् |
| झ भञ् | यञ् |
| घ ढ धष् | झष्, भष् |
| ज ब ग ड दश् | अश्, हश्, वश्, झश्, जश्, बश् |
| ख फ छ ठ थ च ट तव् | छव् |
| कपय् | यय्, मय्, झय्, खय्, चय् |
| श ष सर् | यर्, झर्, खर्, चर्, शर् |
| हल् | अल्, हल्, वल्, रल्, झल्, शल् |