परीक्षापत्रम्

1.      झय्, यर्, इच्, अल् प्रत्याहारान् सूत्रनिर्देशपूर्वकं साधयत।

2.      अ, य, स वर्णानां बाह्यप्रयत्नाः लेख्याः

3.      सवर्णसँज्ञासूत्रं टिसँज्ञासूत्रञ्च सार्थमुल्लिख्य य, म, श, अ वर्णेषु कयोरपि द्वयोः स्थानमाभ्यन्तरप्रयत्नञ्च लिखत।

4.      ऋ , औ, भ, ल वर्णानां स्थानानि प्रयत्नांश्च विलिख्य अल्  प्रत्याहारं सूत्रनिर्देशपूर्वकं साधयत ।

5.      क, प, उ वर्णानां स्थानानि प्रयत्नांश्च विलिख्य, ‘अणुदित्सवर्णस्य चाप्रत्ययः’ इत्यस्य अर्थं उदाहरणञ्च लिखत।

6.      आदिरन्त्येन सहेता, परः संनिकर्षः संहिता इति सूत्रद्वयस्य अर्थौ विलिख्य आभ्यन्तरप्रयत्नस्य भेदान् लिखत।

7.      अच् प्रत्याहारं संसाध्य ‘ऊकालोऽज्झ्रस्वदीर्घप्लुतः’ इति सूत्रस्य सोदाहरणं अर्थं लिखत।

8.      ‘सुप्तिङन्तं पदम्’ इति सूत्रं सोदाहरणं व्याख्याय र, श, ह वर्णेषु कयोरपि द्वयोः पृथक्-पृथक् बाह्यप्रयत्नान् लिखत।

9.      अ, ट, ल, श वर्णानां स्थानमाभ्यन्तरप्रयत्नं च लिखित्वा ऋकारस्य त्रिंशद् भेदान् प्रदर्शयत ।

10.  ‘अणुदित्सवर्णस्य चाप्रत्ययः’ इत्यस्मिन् सूत्रे ‘अप्रत्ययः’ इत्यस्य पदस्य अभिप्रायं स्पष्टीकुरुत।

11.  ‘अदर्शनं लोपः’ इत्यस्मिन् सूत्रे ‘लोपः’ इत्यस्य पदस्य विवेचनं कुरुत ।

12.  सवर्ण,संहिता,संयोगसंज्ञाविधायकसूत्राणि विलिख्य, इ-घ-ज-ष वर्णानां स्थानमाभ्यन्तरप्रयत्नञ्च लिखत।

Leave a Reply