परीक्षापत्रम्
1. झय्, यर्, इच्, अल् प्रत्याहारान् सूत्रनिर्देशपूर्वकं साधयत।
2. सवर्णसँज्ञासूत्रं टिसँज्ञासूत्रञ्च सार्थमुल्लिख्य य, म, श, अ वर्णेषु कयोरपि द्वयोः स्थानम् आभ्यन्तरप्रयत्नञ्च लिखत।
3. प्रष्ठौहः, गोऽग्रम्, किम्वुक्तम्, अमी ईशाः, कृष्णर्द्धिः, उ उमेशः - एषु प्रयोगेषु सन्धिकार्याणि लिखत।
4. हर इह, गो अग्रम्, शिवेहि, ओष्णम् - एते प्रयोगाः सूत्रनिर्देशेन साधु साधनीयाः।
5. गवेन्द्र:, हरेऽव, गङ्गौघः, प्रार्च्छति, गवाग्रम् - एते प्रयोगाः साध्यन्ताम्।
6. धात्रंशः, वाप्यश्वः, सुखार्तः, गौर्य्यौ, मनीषा, प्रेजते, गवाक्षः - एषु यथेच्छं चतुर्णां प्रयोगाणां सिद्धिं प्रदर्श्य गङ्गे अमू, अहो ईशा:, विष्णो इति , रामकृष्णावमू आसाते इत्यत्र सन्धिः कथन्न इति लिखत।