परीक्षापत्रम्

1. एतान् प्रयोगान् साधयत - शार्ङिञ्जयः, विद्वाँल्लिखति, प्रश्नः, शान्तः

2. सवर्णसँज्ञासूत्रं उल्लिख्य थ, म, इ, क, ड वर्णेषु कयोरपि द्वयोः स्थानम् प्रयत्नञ्च लिखत।

3. एतन्मुरारि, उत्थानम् , षट्त्सन्तः, संस्कर्ता, प्रत्यङ्ङात्मा, तच्छ्लोकेन  एषु यथेच्छं चतुर्णां प्रयोगाणां सिद्धिं प्रदर्शयत।

4  वाग्घरिः, प्राङ्खषष्ठः, नॄँ:पाहि, शिवच्छाया - एते प्रयोगाः सूत्रनिर्देशेन साधु साधनीयाः।

5. तच्छिवः, कांस्कान् , भवाँस्तनोति, शिवोऽर्च्यः  - एते प्रयोगाः साध्यन्ताम्।

6. सन्नच्युतः, एषोऽत्र, चक्रिँस्त्रायस्व, हरेऽव, शिवो वन्द्यः, देवा इह, एषको रुद्रः - एतेषु पञ्चानां साधुत्वं विधाय मनस् +रथ इत्यत्र सन्धौ किं रूपम् इति सप्रमाणं लिखत ।

7. शम्भू राजते. सैष दाशरथी रामः, स शम्भुः, विष्णुस्त्राता, हरिं वन्दे, षण्णाम् - एते प्रयोगाः साध्यन्ताम्

3 Responses to “परीक्षापत्रम्”

  1. gkamesh Says:

    shoonyo(s)mi… anugrheetosmi…dhanyosmi…

  2. mrrao Says:

    प्रियश्रीनिवासकृष्णन्‌ महोदय!

    स्वस्ति। अहं संस्कृतस्य बद्धानुरागी यद्यपि पाठशालायां वा विश्वविद्यालये वा संस्कृतशिक्षणं किञ्चिदपि न लब्धवान्‌। कथं तस्मिन्‌ मम तावती तीव्रासक्तिः? एवं। उप५०वर्षपूर्वं एकदा मम कञ्चित्‌ संस्कृतज्ञं मित्रं भर्तृहरेः शृङ्गारश्लोकं एकं अपठत्‌ तत्‌ उरसि निपतितानां स्रस्तधम्मिल्लकानां मुकुलितनयनानां किञ्चिदुन्मीलितानां। उपरि सुरतखेस्विन्नगण्डस्थलानां अधरमधु वधूनां भाग्यवन्तः पिबन्ति॥ इति। व्याख्यातवांश्च। तेन संस्कृतासवपानेन अद्यापि मदोन्मत्तोऽस्मि। भविष्यामि च।

    शब्दशास्त्रमनधीत्य यः पुमान्‌ वक्तुमिच्छति वचः सभान्तरे। बन्धुमिच्छति स वने मदोत्कटं हस्तिनं कमलनालतन्तुना॥ इति सत्यं किंतु सर्वविदां समाजे विभूषणं मौनमपण्डितानां इत्युक्त्या न हि न हि रक्षति डुकृञ्करणे इत्युक्त्या च विषण्णीकृताः बहुशः मादृशाः जनाः संस्कृतपाटवं प्रदर्शयितुं लज्जन्ते। अतः व्यावहारिकसंस्कृतसंभाषणाय सर्वे प्रेरणीयाः न च निबन्धादिरचनाय इति मम मतं। तदर्थं अतीव व्याकरणप्रावीण्यं न अपेक्ष्यते इति वक्तारं मां क्षन्तुं अर्हति। कस्यामपि भाषायां संभाषणसामर्थ्यं संभाषणेनैव लभ्यते न च व्याकरणज्ञानेन। मातुः सकाशात्‌ शिशुः व्याकरणं शिक्षेत किं? लालनसंभाषणस्तन्येन शिशोः मातृभाषापोषणं भवति।

    यत्सत्यं gkameshमहोदयः इव अहमपि अस्यां परीक्षायं शून्याङ्कमेव लभेय!

    एतत्‌ अप्रियपत्रं पठित्वा मा मह्यं कुप्यतु भवान्‌। आन्तर्जालक्षेत्रेषु (Internet) विद्यमानान्‌ आधुनिकविषयान्‌ संस्कृतेन अवतरणं कृत्वा अस्माकं संस्कृतं अद्यतनीकर्तुं भवतः अतिप्रशंसनीयं संस्कृतपाण्डित्यं उपयुक्तं भवतु इति सविनयं प्रार्थये। अस्मिन्‌ विषये

    http://mrrao.0catch.com/

    इति मम जालस्थानं भवान्‌ द्रष्टुं अर्हति।

    धन्यवादाः!
    भवदीयः
    मध्वाति रामचन्द्रः

  3. Srinivasa Says:

    लोको भिन्न रुचिः

Leave a Reply