पाठ 17 – अजन्तपुंल्लिङ्गाः ४
140 टा-ङसि-ङसामिनात्स्याः 7.1.12
अनुवृत्तिः अङ्गस्य, अतः
अर्थः अकारान्तादङ्गादुत्तरेषां टाङसिङसाम् इन, आत्, स्य-इत्येते आदेशा भवन्ति यथासंख्यम्।
Affixes टा, ङसि and ङस्, when occurring after an अङ्ग which ends in अ, are replaced by इन, आत् and स्य respectively.
उदाहरण: रामेण। (गुणो णत्वं च)
टिप्पणि अत: -> अकारान्तस्य by तदन्तविधिः
3 स्थानी, 3 आदेशा: -> यथासंख्यम्
इन, आत्, स्य are all अनेकाल् -> सर्वादेशाः (#45 अनेकाल् शित् सर्वस्य)
141 सुपि च 7.3.102
अनुवृत्तिः अङ्गस्य, अतो दीर्घो यञि
अर्थः सुपि च यञादौ परतोऽकारान्तस्याङ्गस्य दीर्घो भवति।
A दीर्घ vowel comes in place of the final अ of an अङ्ग, also when a सुप् beginning with sounds denoted by प्रत्याहार यञ् follows.
उदाहरण: रामाभ्याम्।
टिप्पणि अत: -> अकारान्तस्य by तदन्तविधिः
यञि -> यञादौ by तदादिविधिः
142 अतो भिस ऐस् 7.1.9
अनुवृत्तिः अङ्गस्य
अर्थः अकारान्तादङ्गादुत्तरस्य भिस ऐसित्ययमादेशो भवति।
Affix भिस्, when occurring after an अङ्ग which ends in अ, is replaced by ऐस्.
उदाहरण: रामैः।
143 ङेर्यः 7.1.13
अनुवृत्तिः अङ्गस्य, अतः
अर्थः अकारान्तादङ्गादुत्तरस्य ‘ङे’ इत्येतस्य ‘य’ इत्ययमादेशो भवति।
Affix ङे, when occurring after an अङ्ग which ends in अ, is replaced by य.
उदाहरण:
144 स्थानिवदादेशोऽनल्विधौ 1.1.56
अनुवृत्तिः
अर्थः आदेशः स्थानिवत् स्यात् न तु स्थान्यलाश्रयविधौ। सुबादेशः सुब्वद्भवति। ‘सुपि च’ इति दीर्घत्वं भवति।
A substitute is treated like a substituendum except when an operation relative to an original sound is performed (अल्विधि).
उदाहरण: रामाय, रामाभ्याम्।
145 बहुवचने झल्येत् 7.3.103
अनुवृत्तिः अङ्गस्य, अतः, सुपि
अर्थः बहुवचने झलादौ सुपि परतोऽकारान्तास्याङ्गस्य एकारादेशो भवति।
When a plural (बहुवचन) case affix (सुप्) beginning with झल् follows, ए is the substitute for the final अ of an अङ्ग.
उदाहरण: रामेभ्यः।
टिप्पणि: सुपि किम्? पचध्वम्।
146 वाऽवसाने 8.4.56
अनुवृत्तिः झलाम्, चरः
अर्थः अवसाने झलां चरो वा भवति।
When a pause ensues, चर् may be optionally substituted for झल्.
उदाहरण: रामात्, रामाद्।
147 ओसि च 7.3.104
अनुवृत्तिः अङ्गस्य, अतः, एत्
अर्थः ओसि परतोऽकारान्तस्याङ्गस्य एकारादेशो भवति।
When ओस् follows, ए is the substitute for the final अ of an अङ्ग.
उदाहरण: रामयोः।
148 ह्रस्वनद्यापो नुट् 7.1.54
अनुवृत्तिः अङ्गस्य, आमि
अर्थः ह्रस्वान्तात् नद्यन्तात् आबन्ताच्चाङ्गादुत्तरस्यामो नुट् आगमो भवति।
आगम नुट् is introduced to case affix आम् when it occurs after an अङ्ग which ends in a short vowel (ह्रस्वान्त), in a form which is termed नदी (नद्यन्त), or else ends in the final affix आप् (आबन्त).
उदाहरण:
149 नामि 6.4.3
अनुवृत्तिः अङ्गस्य, दीर्घः
अर्थः नामि परतः अङ्गस्य दीर्घो भवति।
The final short vowel of an अङ्ग is replaced with its दीर्घ counterpart when नाम् follows.
उदाहरण: रामाणाम्, रामे, रामयोः।
150 आदेशप्रत्यययोः 8.3.59
अनुवृत्तिः नुम्विसर्जनीयशर्व्यवायेऽपि, सः, इण्कोः, अपदान्तस्य मूर्धन्यः, संहितायाम्।
अर्थः इण्कवर्गाभ्यामुत्तरस्य आदेशो यः सकारः प्रत्ययस्य च यः सकारस्तस्य मूर्धन्यादेशो भवति संहितायाम्।
The cerebral substitute shall take the place of the सकार, when the सकार is part of an आदेश, or of a प्रत्यय following इण् or कवर्ग, and is not the final letter of the पाद.
उदाहरण: रामेषु।
टिप्पणि The rule merely lays down मूर्धन्यादेश for सकार. But we have to determine the exact मूर्धन्य which is to be substituted. This is to be done in the basis of #17 स्थानेऽन्तरतमः. सकार and षकार are both ईषद्विवृत.
Thus we have completed the declension of the word राम. All अकारान्त words such as कृष्ण are to be similarly declined.
November 1, 2007 at 10:15 pm
Comment from Himanshu:
1) In the case of रामाः, why बहुवचने झल्येत् is not applicable?
Answer: Per the उत्सर्ग अपवाद परिभाषा, प्रथमयोः पूर्वसवर्णः is directly applicable and therefore blocks the application of बहुवचने झल्येत्
Comment from Shankar:
2) In the case of रामेभ्यः, why is there no दीर्घ lengthening per सुपि च?
Answer: Per the rule विप्रतिषेधे परं कार्यम्, बहुवचने झल्येत् (7.3.103) overrides सुपि च (7.3.102).