पाठ 21 – अजन्तपुंल्लिङ्गाः ८
175 अनङ् सौ 7.1.93
अनुवृत्तिः अङ्गस्य, सख्युरसंबुद्धौ
अर्थः सखि इत्येतस्याङ्गस्य असंबुद्धौ सौ परतोऽनङ् इत्ययमादेशो भवति।
अनङ् replaces the अङ्ग of the word सखि when सु follows provided it (सु) is not सम्बुद्धि.
उदाहरणः सखन् स्।
टिप्पणिः अनङिति अन्त्यादेशः (#46 ङिच्च)
176 अलोऽन्त्यात् पूर्व उपधा 1.1.65
अनुवृत्तिः अङ्गस्य
अर्थः अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः स्यात्।
The letter, before the final letter of a word, is called the उपधा (penultimate)
उदाहरण: In सखन्, न् is अन्त्य, and the अ before that is the उपधा.
177 सर्वनामस्थाने चासम्बुद्धौ 6.4.8
अनुवृत्तिः नोपधायाः, नामि, अङ्गस्य, दीर्घः
अर्थः सम्बुद्धिभिन्ने सर्वनामस्थाने च परतः नान्तस्याङ्गस्य उपधायाः दीर्घो भवति।
The long form (दीर्घ) is the substitute of the penultimate letter of an अङ्ग ending in न, when a सर्वनामस्थान not being सम्बुद्धि, follows.
उदाहरण: सखान् स् ।
178 अपृक्त एकाल् प्रत्ययः 1.2.41
अनुवृत्तिः
अर्थः एकाल्प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात् ।
A प्रत्यय consisting of a single letter is called अपृक्त।
उदाहरण: स् इत्यस्य अपृक्तसंज्ञा
टिप्पणिः एकशब्दः असहायवाची। Please note that the ending सु, when divested of its अनुबन्ध, is स् and is therefore एकाल्. The अनुबन्ध is not to be taken into consideration when we want to determine if a प्रत्यय is एकाल् or अनेकाल्. For it has been said, नानुबन्धकृतम् अनेकाल्त्वं. This shows that सु is एकाल् and hence, अपृक्त.
179 हल् ङ्याब्भ्यो दीर्घात् सु-ति-स्यपृक्तं हल् 6.1.68
अनुवृत्तिः लोपः
अर्थः हलन्ताद् ङ्यन्ताद् आबन्ताच्च दीर्घात् परं सु, ति, सि इत्येतदपृक्तं हल् लुप्यते।
सु, ति and सि - when reduced to an अपृक्त and when standing after what ends in a हल् or in the दीर्घ vowel deduced from the feminine termination ङी or आप् - are deleted.
उदाहरण: सखान् स् -> सखान्
टिप्पणि: सखि is a प्रातिपदिक which becomes a पद when the प्रत्यय सु is added (#14 सुप्तिङन्तं पदम्). Even though the प्रत्यय सु is deleted, the remaining portion viz., सखान् can and does retain the designation पद (#190 प्रत्ययलोपे प्रत्ययलक्षणम्)
180 नलोपः प्रातिपदिकान्तस्य 8.2.7
अनुवृत्तिः पदस्य
अर्थः प्रातिपदिकस्य पदस्य योऽन्त्यो नकारस्तस्य लोपो भवति।
The final न in a पद, which is entitled to the designation of a प्रातिपदिक, is deleted.
उदाहरणः सखा ।
टिप्पणिः सखान् is a प्रातिपदिक as सखि is a प्रातिपदिक (#144 स्थानिवदादेशोऽनल्विधौ). सखि is a प्रातिपदिक (#116 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्)
181सख्युरसम्बुद्धौ 7.1.92
अनुवृत्तिः णित्, सर्वनामस्थाने, अङ्गस्य
अर्थः सख्युरङ्गात् परं सम्बुद्धिवर्जं सर्वनामस्थानं णिद्वत् स्यात् ।
Let a सर्वनामस्थान coming after the word सखि, not in the sense of सम्बुद्धि, be considered as if it contains a णित्.
उदाहरणः
182 अचो ञ्णिति 7.2.115
अनुवृत्तिः वृद्धिः, अङ्गस्य
अर्थः अजन्तास्याङ्गस्य वृद्धिर्भवति, ञिति णिति च प्रत्यये परतः।
Let वृद्धि be the substitute of an अङ्ग ending in a vowel, when an indicatory ञित् or णित् follows.
उदाहरणः सखि (औ) -> सखै (औ) -> सखाय् (औ) -> सखायौ। सखायः। हे सखे। सखायम्। सखायौ। सखीन्। सख्या। सख्ये।
183 ख्यत्यात् परस्य 6.1.112
अनुवृत्तिः उत्, ङसिङसोः, अति, संहितायाम्
अर्थः ख्य् त्य् इत्येताभ्यां परस्य ङसिङसोरतः स्थाने उकारादेशो भवति ।
Short उ is the substitute of the अ of ङसि and ङस् following the words खि and ति or खी and ती which have substituted यण् for the final vowel.
उदाहरणः सखि (अस्) -> सख्य् (अस्) -> सख्य् (उस्) -> सख्युः । सख्योः। सखीनाम् ।
टिप्पणिः खि and ति are the terminations of the words सखि and पति, which they are here employed to designate. The दीर्घ forms खी and ती indicate certain derivative forms (#202 न भूसुधियोः).
184 औत् 7.3.118
अनुवृत्तिः इदुद्भ्याम्, ङेः, अङ्गस्य
अर्थः इदुद्भ्यामुत्तरस्य ङेरौकारादेशो भवति।औत् is the substitute for ङि after short इ and उ.
उदाहरणः सख्यौ। शेषं हरिवत् ।
185 पतिः समास एव 1.4.8
अनुवृत्तिः घि
अर्थः पतिशब्दस्य शेषत्वात् पूर्वेण सूत्रेण (#170 घ्यऽसखि) घि संज्ञा सिद्धैव, अत्र नियमः क्रियते। समासे एव पतिशब्दस्य घि संज्ञा स्यात् नान्यत्र।
The word पति is designated घि only when it is in a compound (समास)
उदाहरणः पत्ये। पत्युः। पत्युः। पत्यौ। शेषं हरिवत्। समासे तु भूपतये।