परीक्षापत्रम्
1. निम्नलिखितानि रूपाणि साधयत - सर्वेषाम्, रामौ, रामैः, रामाः
2. रामाणाम्, हरी, विश्वपः, सर्वस्मात्, सर्वस्मै - एतेषु चतुर्णां साधुत्वं विधेयं
3. बालकात्, बालकस्य, रामयोः - एतानि पदानि संक्षिप्तोपयुक्तप्रक्रियया साधनीयानि
4. रामान्, रामाय, सर्वे, विश्वपौ - एते प्रयोगाः सूत्रनिर्देशेन साधु साधनीयाः।
5. हरीन्, हे हरे, पूर्वे, उत्तराः कुरवः, रामेभ्यः - एते प्रयोगाः साध्यन्ताम्।
6. त्रयः, द्वाभ्याम्, हरय:, हरिणा, हरिभिः - एषु चतुर्णां साधुत्वं विधाय युष्मद् शब्दस्य द्वितीयायां रूपाणि लिखत।
7. टि, भ, घि, उपधा, नदी - संज्ञासूत्राणामर्थान् विलिख्य, एतेषामुदाहराणानि साधनीयानि।
8. मुनये, पत्या, भूपतये, सखीन् - एषां सिद्धिः प्रदर्शनीया।
9. हर्योः, सखा, हरीणाम्, मुनौ - एतानि रूपाणि साधयत।
10. सखायौ, त्रयाणाम्, पप्याम्, पपी - एते कथं सिद्ध्यन्ति।
11. बहुश्रेयस्यै, सख्युः, बहुश्रेयस्याम्, हे बहुश्रेयसि, निर्जरसौ, पूर्वस्मात् - एषु स्वेच्छया पञ्च प्रयोगाः साधनीयाः।
12. सुधियौ, क्रोष्टा, स्वभुवौ, गावौ, नद्याः - एतेषु चतुर्णां साधुत्वं विधेयं ।
13. हे पितः, धाता, क्रोष्टुः, वर्षाभ्वौ, ना - एते प्रयोगाः सूत्रनिर्देशेन साधु साधनीयाः।
14. साधोः, पितरः, क्रोष्टूनाम्, करभ्वः, नृणाम् - एते प्रयोगाः साध्यन्ताम्।
15. पितुः, क्रोष्ट्रे, धातॄणाम्, पितरौ, गाम् - एषां सिद्धिः प्रदर्शनीया।