262 वसु-स्रंसुध्वंस्वनडुहां दः 8.2.72
अनुवृत्तिः पदस्य, सः
अर्थः सकारान्तस्य वस्वन्तस्य पदस्य, स्रंसु ध्वंसु अनडुह् इत्येतेषां च दकारादेशो भवति।
उदाहरणः अनडुह् भ्याम् -> अनडुद्भ्याम्। अनडुत्सु।
263 सहेः साडः सः 8.3.56
अनुवृत्तिः अपदान्तस्य मूर्धन्यः, संहितायाम्
अर्थः सहेर्धातोर्यत् साड्रूपं तस्य सकारस्य मूर्धन्य आदेशो भवति।
उदाहरण: तुरासाह् -> तुराषाड्। तुराषाट्। तुरासाहौ। तुरासाहः।
264 दिव औत् 7.1.84
अनुवृत्तिः सौ, अङ्गस्य
अर्थः दिव इत्येतस्य अङ्गस्य सौ परत औत् इत्ययमादेशो भवति।
उदाहरण: सुदिव् सु -> सुदि औ सु -> सुद्यौः। सुदिवौ
265 दिव उत् 6.1.131
अनुवृत्तिः पदस्य
अर्थः दिवः पदस्य उकारादेशो भवति।
उदाहरण: सुदिव् भ्याम् -> सुद्युभ्याम्
266 षट्चतुर्भ्यश्च 7.1.55
अनुवृत्तिः नुट्, आमि, अङ्गस्य
अर्थः षट्संज्ञकेभ्यश्चतुःशब्दाच्चोत्तरस्यामो नुडागमो भवति।
उदाहरण: षण्णाम्।
267 रषाभ्यां नो णः समानपदे 8.4.1
अनुवृत्तिः संहितायाम्
अर्थः रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति एकस्मिन् पदे, एकस्मिन्नेव पदे चेत् निमित्तनिमित्तिनौ भवतः।
उदाहरणः चतुर्ण्णाम्। चतुर्णाम्।
टिप्पणिः षग्रहणं उत्तरार्थम् । समानपद <-> एकपद ।
268 रोः सुपि 8.3.16
अनुवृत्तिः विसर्जनीयः, रः, संहितायाम्
अर्थः ”रु” इत्येतस्य रेफस्य सुपि परतो विसर्जनीयादेशो भवति।
उदाहरणः पयःसु। चतुर्षु। षस्य द्वित्वे प्राप्ते।
टिप्पणिः सुपि इति सप्तमीबहुवचनं गृह्यते। रोरेव सुपि विसर्जनीयादेशः, नान्यस्य।
269 शरोऽचि 8.4.49
अनुवृत्तिः न, द्वे, संहितायाम्
अर्थः अचि परतः शरो न द्वे भवतः।
उदाहरणः चतुर्षु।
270 मो नो धातोः 8.2.64
अनुवृत्तिः पदस्य
अर्थः मकारान्तस्य धातोः पदस्य नकारादेशो भवति।
उदाहरणः प्रशाम् स् -> प्रशाम् -> प्रशान् ।
टिप्पणिः नलोपो न – नत्वस्य असिद्धत्वात्।
271 किमः कः 7.2.103
अनुवृत्तिः विभक्तौ, अङ्गस्य
अर्थः किम् इत्येतस्य स्थाने क इत्ययमादेशो भवति विभक्तौ परतः।
उदाहरणः कः। कौ। के। शेषं सर्ववत्।
272 इदमो मः 7.2.108
अनुवृत्तिः सौ, विभक्तौ, अङ्गस्य
अर्थः इदमः सौ विभक्तौ परतः मकारोऽन्तादेशो भवति
उदाहरणः इदम् -> इदम्
टिप्पणिः इदमो मकारस्य मकारवचनं त्यदाद्यत्वबाधनार्थम् ।
273 इदोऽय् पुंसि 7.2.111
अनुवृत्तिः सौ, इदमः, विभक्तौ, अङ्गस्य
अर्थः इदम इद्रूपस्य पुंसि सौ विभक्तौ परतोऽय् इत्ययमादेशो भवति।
उदाहरणः इदम् -> इदम् स् -> अयम् स् -> अयम् ।
274 अतो गुणे 6.1.97
अनुवृत्तिः पररूपम्, अपदान्तात्, एकः पूर्वपरयोः, संहितायाम्
अर्थः अपदान्तादकारात् गुणे परतः पूर्वपरयोः स्थाने पररूपमेकादेशो भवति, संहितायां विषये।
उदाहरणः इदम् औ -> इद अ औ -> इद औ
275 दश्च 7.2.109
अनुवृत्तिः इदमो मः, विभक्तौ, अङ्गस्य
अर्थः इदमो दकारस्य स्थाने मकारादेशो भवति विभक्तौ परतः।
उदाहरणः इद औ -> इम औ -> इमौ। इमे।
276 अनाप्यकः 7.2.112
अनुवृत्तिः इदः, इदमः, विभक्तौ, अङ्गस्य
अर्थः इदमः अककारस्य इद्रूपस्य अन इत्ययमादेशो भवति, आपि विभक्तौ परतः
उदाहरणः इदम् + आ -> इद + आ (#193)
-> अन + आ (#276)
-> अन + इन (#140)
-> अनेन
टिप्पणिः ‘आपि’ इति प्रत्याहारः तृतीयैकवचनात्प्रभृति सुपः पकारेण।
आप् -> {टा <-> सुप्}
277 हलि लोपः 7.2.113
अनुवृत्तिः अकः, इदः, इदमः, विभक्तौ, अङ्गस्य
अर्थः इदमः अककारस्य इद्रूपस्य लोपो वभवति, हलादौ विभक्तौ परतः
उदाहरणः इदम् + भ्याम् -> इद + अ + भ्याम् (#193)
-> इद + भ्याम् (#274)
-> अ + भ्याम् (#277)
टिप्पणिः नानर्थकेऽलोऽन्त्यविधिरनभ्यासविकारे => अभ्यासविकारं वर्जयित्वा
अनर्थकेऽलोऽन्त्यविधिर्न भवतीत्यर्थः। अत्र ‘इद्’ इति समुदायैकदेशत्वादनर्थकः, समुदायो ह्यर्थवान्
तस्यैकदेशोऽनर्थकः इति न्यायः।
278 आद्यन्तवदेकस्मिन् 1.1.21
अनुवृत्तिः
अर्थः आदौ इव अन्त इव एकस्मिन्नपि कार्य भवति। सुपि चेति अकारान्तस्य अङ्गस्य दीर्घो भवति।
उदाहरणः आभ्याम् (#278, #141)
279 नेदमदसोरकोः 7.1.11
अनुवृत्तिः भिस ऐस्, अङ्गस्य
अर्थः इदम् अदस् इत्येतयोः अककारयोः भिस ऐस् न भवति।
उदाहरणः एभिः (बहुवचने झल्येत् इति एत्वं) । अस्मै। एभ्यः। अस्मात्। अस्य। अनयोः (‘ओसि च’ इत्येत्वेऽयादेशः)। एषाम्। अस्मिन्। एषु।
Posted by Srinivasa
Posted by Srinivasa
Posted by Srinivasa