पाठ 30 – हलन्तपुंल्लिङ्गाः
280 द्वितीयाटौस्स्वेनः 2.4.34
अनुवृत्तिः एतदः, इदमोऽन्वादेशे अनुदात्तः
अर्थः द्वितीया टा ओस् इत्येतासु विभक्तिषु परतोऽन्वादेशे वर्त्तमानयोः इदमेतद्शब्दयोरनुदात्त ‘एन’ आदेशो भवति।
उदाहरणः एनम्।एनेन। एनान्। एनयोः।अनेन व्याकरणमधीतमेनं छन्दोऽध्यापयेति। राजा।
टिप्पणि: आदेशः कथनम्। अन्वादेशोऽनुकथनम्।
281 न ङिसम्बुद्ध्योः 8.2.8
अनुवृत्तिः नलोपः प्रातिपदिकान्तस्य, पदस्य
अर्थः प्रातिपदिकस्य पदस्य योऽन्त्यो नकारस्तस्य ङौ सम्बुद्धौ च परतो लोपो न भवति।
उदाहरण: हे राजन्। राजानौ। राजानः। राज्ञः।
ङावुत्तरपदे प्रतिषेधो वक्तव्यः
अर्थः उत्तरपदे परतो यो ङि तस्मिन् परे ‘न ङिसम्बुद्ध्योः’ इति निषेधस्य प्रतिषेधो वक्तव्य इत्यर्थः।
एवं च चर्मतिल इत्यत्र उत्तरपदे परत ‘न ङि ..’ इति प्रतिषेधाभावाद् नकारस्य लोपो निर्बाध इति भावः।
उदाहरण: ब्रह्मणि निष्ठा अस्य ब्रह्मनिष्ठः। चर्मणि तिला अस्य चर्मतिलः।
282 नलोपः सुप्-स्वर-संज्ञा-तुग्विधिषु कृति 8.2.2
अनुवृत्तिः असिद्धः
अर्थः सुब्विधौ स्वरविधौ संज्ञाविधौ तुग्विधौ च कृति नलोपः पूर्वत्रासिद्धो भवति।
उदाहरण: राजभ्याम्। राजभिः । राजभ्यः। राजन्। राज्ञि। राजसु। राजाश्वः। यज्वा। यज्वानौ। यज्वानः। ब्रह्मणः। ब्रह्मणा।
283 न संयोगाद्वमन्तात् 6.4.137
अनुवृत्तिः अल्लोपोऽनः, भस्य, अङ्गस्य
अर्थः वकारान्तात् मकारान्तात् संयोगादुत्तरस्य अनोऽकारस्य लोपो न भवति।
उदाहरण: यज्वनः। यज्वना। यज्वभ्याम्।
टिप्पणि: वश्च मश्च वमौ, वमौ अन्ते यस्य स वमन्तः।
284 इन्-हन्-पूषार्यम्णां शौ 6.4.12
अनुवृत्तिः उपधायाः, अङ्गस्य, दीर्घः
अर्थः इन्, हन्, पूषन्, अर्यमन् इत्येवमन्तानामङ्गानामुपधाया शौ परतो दीर्घो भवति, नान्यत्र।
उदाहरण: ।
285 सौ च 6.4.13
अनुवृत्तिः इन्-हन्-पूषार्यम्णां, असम्बुद्धौ, उप्धायाः, अङ्गस्य, दीर्घः
अर्थः सावसम्बुद्धौ परतः इन्हन्पूषार्यम्णामुपधाया दीर्घो भवति।
उदाहरणः वृत्रहा। हे वृत्रहन्! ।
286 एकाजुत्तरपदे णः 8.4.12
अनुवृत्तिः प्रातिपदिकान्तनुम्विभक्तिषु, पूर्वपदात्, अट्कुप्वाङ्नुम्व्यवायेऽपि, संहितायाम्
अर्थः एकाजुत्तरपदे समासे पूर्वपदस्थान्निमित्तादुत्तरस्य प्रातिपदिकान्तनुम्विभक्तिषु च यो नकारस्तस्य णकारादेशो भवति ।
उदाहरणः वृत्रहणौ। वृत्रहणः।
287 हो हन्तेर्ञ्णिन्नेषु 7.3.54
अनुवृत्तिः कु, अङ्गस्य
अर्थः हन्तेर्हकारस्य स्थाने कवर्गादेशो भवति, ञिति णिति प्रत्यये परतो नकारे च।
उदाहरणः वृत्रहन् शस् -> वृत्रह् न् अस् -> वृत्रघ्नः।
288 मघवा बहुलम् 6.4.128
अनुवृत्तिः तृ, अङ्गस्य
अर्थः मघवन् इत्येतस्याङ्गस्य बहुलं तृ इत्ययमादेशो भवति।
उदाहरणः मघवान् । मघवन्तौ। मघवन्तः। मघवन्तम्। मघवन्तौ। मघवतः। मघवता।
टिप्पणिः इह दीर्घे कर्तव्ये संयोगान्तलोपस्यासिद्धत्वं न भवति, बहुलग्रहणात्।
क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव।
शिष्टप्रयोगाननुसृत्य लोके विज्ञेयमेतद्बहुलग्रहे तु॥
289 उगिदचां सर्वनामस्थानेऽधातोः 7.1.70
अनुवृत्तिः नुम्, अङ्गस्य
अर्थः धातुवर्जितानामुगितामङ्गानामञ्चतेश्च नुमागमो भवति, सर्वनामस्थाने परतः।
उदाहरणः हे मघवन्!। मघवद्भ्याम्।
290 श्व-युव-मघोनामतद्धिते 6.4.133
अनुवृत्तिः सम्प्रसारणम्, भस्य, अङ्गस्य
अर्थः श्वन्, युवन्, मघवन् इत्येतेषां भसंज्ञकानामङ्गानामतद्धिते प्रत्यये परत: सम्प्रसारणं भवति।
उदाहरणः मघवन् शस् -> मघोनः।
291 न सम्प्रसारणे सम्प्रसारणम् 6.1.37
अनुवृत्तिः
अर्थः सम्प्रसारणे परतः पूर्वस्य यणः सम्प्रसारणं न भवति।
उदाहरणः यूनः। यूना। अर्वा। हे अर्वन्!।
292 अर्वणस्त्रसावनञः 6.4.127
अनुवृत्तिः अङ्गस्य
अर्थः अर्वन् इत्येतस्याङ्गस्य तृ इत्ययमादेशो भवति, सुश्चेत्ततः परो न भवति, स च नञ उत्तरो न भवति।
उदाहरणः अर्वन्तौ।अर्वन्तः। अर्वद्भ्याम्।
293 पथिमथ्यृभुक्षामात् 7.1.85
अनुवृत्तिः सौ, अङ्गस्य
अर्थः पथिन् मथिन् ऋभुक्षिन् इत्येतेषामङ्गानां सौ परत आकारादेशो भवति।
उदाहरणः पथिन् सु -> पथि आ स्
टिप्पणि: सुलोपो न।
294 इतोऽत् सर्वनामस्थाने 7.1.86
अनुवृत्तिः पथिमथ्यृभुक्षाम्, अङ्गस्य
अर्थः पथिन् मथिन् ऋभुक्षिन् इत्येतेषामिकारस्य स्थाने अकारादेशो भवति, सर्वनामस्थाने परतः
उदाहरणः पथ आ स्।
295 थो न्थः 7.1.87
अनुवृत्तिः सर्वनामस्थाने, पथिमथोः, अङ्गस्य
अर्थः पथिमथोस्थकारस्य स्थाने ‘न्थ’ इत्ययमादेशो भवति, सर्वनामस्थाने परतः।
उदाहरणः पन्थ आ स् -> पन्थाः। पन्थानौ। पन्थानः।
296 भस्य टेर्लोपः 7.1.88
अनुवृत्तिः पथिमथ्यृभुक्षाम्, अङ्गस्य
अर्थः पथ्यादीनां भसंज्ञकानां टेर्लोपो भवति।
उदाहरणः पथिन् शस् -> पथः। पथा। पथे।
May 3, 2008 at 5:45 am
What is the need for सौ च when we have already looked at सर्वनामस्थाने चासम्बुद्धौ?
As I understand the latter covers the former too.
Thanks.
Himanshu
May 3, 2008 at 11:37 am
The rule नोपधायाः 6.4.7 permits lengthening of the उपधा in the case of नान्त words. The previous rule ‘इन्-हन् … 6.4.12’ restricts such lengthening for these words only in front of शी. The present rule extends such lengthening, in the case of these words, to सु also.