पाठ 31 – हलन्तपुंल्लिङ्गाः
297 ष्णान्ता षट् 1.1.24
अनुवृत्तिः संख्या
अर्थः षकारान्ता नकारान्ता च या संख्या सा षट्संज्ञिका भवति।
उदाहरणः षष्, पञ्च, सप्त, अष्ट, नव, दश ।
टिप्पणिः ‘अन्तग्रहणमौपदेशिकार्थम्’ इति काशिका।
298 नोपधायाः 6.4.7
अनुवृत्तिः नामि, अङ्गस्य, दीर्घः
अर्थः नान्तस्याङ्गस्योपधायाः नामि परतो दीर्घो भवति।
उदाहरण: पञ्चानाम्। पञ्चसु।
299 अष्टन आ विभक्तौ 7.2.84
अनुवृत्तिः अङ्गस्य
अर्थः अष्टनो विभक्तौ परत आकारादेशो भवति।
उदाहरण:
300 अष्टाभ्य औश् 7.1.21
अनुवृत्तिः जश्शसोः, अङ्गस्य
अर्थः कृताकाराद् अष्टन् शब्दादुत्तरयोर्जश्शसोः स्थाने औश् इत्ययमादेशो भवति।
उदाहरण: अष्टौ। अष्टौ। अष्टाभिः। अष्टाभ्यः। अष्टानाम्। अष्टासु।
टिप्पणिः ‘षड्भ्यो लुक’ इत्येतस्य अपवादोऽयम्।
301 ऋत्विग् -दधृक्-स्रग् -दिगुष्णिगञ्चु-युजि-क्रुञ्चां च 3.2.59
अनुवृत्तिः क्विन्, सुपि, धातो, प्रत्ययः, परश्च
अर्थः ऋत्विक्, दधृक्, स्रक्, दिक्, उष्णिक् इत्येते पञ्चशब्दा क्विन्प्रत्ययान्ताः। अञ्चु, युजि, क्रुञ्च धातुभ्यश्च क्विन् प्रत्ययो भवति।
उदाहरण:
302 कृदतिङ् 3.1.93
अनुवृत्तिः तत्र, धातोः, प्रत्ययः
अर्थः अस्मिन् धात्वाधिकारे तिङ् भिन्नाः प्रत्ययाः कृत्संज्ञकाः भवन्ति ।
उदाहरणः
303 वेरपृक्तस्य 6.1.67
अनुवृत्तिः लोपः
अर्थः अपृक्तस्य वेः लोपो भवति।
उदाहरणः
304 क्विन्प्रत्ययस्य कुः 8.2.62
अनुवृत्तिः पदस्य
अर्थः क्विन्प्रत्ययस्य पदस्य कवर्गादेशो भवति।
उदाहरणः ऋत्विक्। ऋत्विग्। ऋत्विजौ। ऋत्विग्भ्याम्।
305 युजेरसमासे 7.1.71
अनुवृत्तिः सर्वनामस्थाने, नुम्, अङ्गस्य
अर्थः युजेरङ्गस्यासमासे सर्वनामस्थाने परतो नुमागमो भवति।
उदाहरणः युङ्, युञ्जौ, युञ्जः।
306 चोः कुः 8.2.30
अनुवृत्तिः झलि, अन्ते च, पदस्य
अर्थः चवर्गस्य स्थाने कवर्गादेशो भवति, झलि परत पदान्ते च।
उदाहरणः सुयुक्। खन् (*)।
टिप्पणिः (*) ‘खञ्ज्’ शब्दोऽयम्। हल्ङ्यादिना सुलोपे जकारस्य संयोगान्तलोपः। ततो निमित्तापायाद् अनुस्वारपरसवर्णयोर्निवृत्तिः। खन् इति रूपम्।