पाठ 32 – हलन्तपुंल्लिङ्गाः
307 व्रश्च भ्रस्ज सृज मृज यज राज भ्राज च्छशां षः 8.2.36
अनुवृत्तिः धातोः, झलि, अन्ते च, पदस्य
अर्थः व्रश्चादीनां सप्तानां छशान्तयोश्च षकारोऽन्तादेशः स्यात् झलि पदान्ते च।
उदाहरणः राज् सु -> राज् -> राष् -> राड् -> राट्
308 विश्वस्य वसुराटोः 6.3.128
अनुवृत्तिः पूर्वस्य दीर्घोऽणः, उत्तरपदे, संहितायाम्
अर्थः विश्व इत्येतस्य वसु राट् इत्येतयोरुत्तरपदयोः दीर्घो भवति।
उदाहरण: विश्वाराट्। विश्वावसुः।
विश्वराज् सु (क्विबन्त) -> विश्वराज्
विश्वाराज्
विश्वाराष् (8.2.36)
विश्वाराड् (8.2.39)
विश्वाराट् (8.4.56)
टिप्पणि: राडिति पदान्तोपलक्षणार्थम्। विश्वराजौ - अपदान्तत्वान्न दीर्घः।
309 स्कोः संयोगाद्योरन्ते च 8.2.29
अनुवृत्तिः झलि, लोपः, पदस्य
अर्थः पदान्ते झलि च परतो यः संयोगास्तदाद्योः सकारककारयोर्लोपो भवति।
उदाहरण: भृट्, भृड्। भृज्जौ। भृज्जः।
भृस्ज् सु -> भृस्ज् -> भृज् -> भृष् -> भृड् -> भृट्।
भृस्ज़् औ -> भृश्ज् औ -> भृज्ज् -> भृज्जौ। एवं भृज्जः।
टिप्पणि: हलादौ विभक्तौ -> भृट्, भृड् इति
अजादौ विभक्तौ -> भृज्ज् इति
310 तदो सः सावनन्त्ययोः 7.2.106
अनुवृत्तिः विभक्तौ, अङ्गस्य, त्यदादीनाम् (मण्डूकप्लुति)
अर्थः त्यदादीनामनन्त्ययोस्तकारदकारयोः स्थाने सकारादेशो भवति सौ परतः।
उदाहरण: त्यद् -> स्यः। तद् -> सः। यद् -> यः । एतद् -> एषः।
311 ङेप्रथमयोरम् 7.1.28
अनुवृत्तिः युष्मदस्मद्भ्याम्, अङ्गस्य
अर्थः युष्मदस्मद्भ्यामङ्गाभ्यामुत्तरस्य ङे इत्येतस्य प्रथमाद्वितीययोश्च विभक्त्योः स्थाने अम् इत्ययमादेशो भवति।
उदाहरण: युष्मद् सु -> युष्मद् अम्।
टिप्पणि: प्रथमयोः - प्रथमाद्वितीययोः
312 त्वाहौ सौ 7.2.94
अनुवृत्तिः मपर्यन्तस्य, युष्मदस्मदोः, विभक्तौ, अङ्गस्य
अर्थः सौ विभक्तौ परतो युष्मदस्मदोर्मपर्यन्तस्य यथासंख्य त्व अह इत्येतावादेशौ स्तः।।
उदाहरणः
313 शेषे लोपः 7.2.90
अनुवृत्तिः युष्मदस्मदोः, विभक्तौ, अङ्गस्य
अर्थः एतयोः टि लोपः
उदाहरणः त्वम्। अहम्।
युष्मद् सु -> युष्मद् अम् -> युष्म् अद् अम् -> त्व अद् अम् -> त्वद् अम्
त्व अम् -> त्वम्
टिप्पणिः कश्च शेषः? यत्र आकारो यकारश्च न विहितः।
314 युवावौ द्विवचने 7.2.92
अनुवृत्तिः मपर्यन्तस्य, युष्मदस्मदोः, विभक्तौ, अङ्गस्य
अर्थः द्विवचने ये युष्मदस्मदी तयोर्मपर्यन्तस्य स्थाने युव आव इत्येतावादेशौ भवतः।
उदाहरणः युष्मद् औ -> युव अद् अम् -> युवद् अम्।
315 प्रथमायाश्च द्विवचने भाषायाम् 7.2.88
अनुवृत्तिः युष्मदस्मदोः, विभक्तौ, अङ्गस्य
अर्थः प्रथमायाश्च द्विवचने विभक्तौ परतो युष्मदस्मदोराकारादेशो भवति भाषायां विषये।
उदाहरणः युवद् अम् -> युवा अम् -> युवाम् । एवं आवाम्।
316 यूय वयौ जसि 7.2.93
अनुवृत्तिः मपर्यन्तस्य, युष्मदस्मदोः, विभक्तौ, अङ्गस्य
अर्थः जसि विभक्तौ परतो यथासंख्यं युष्मदस्मदोर्मपर्यन्तस्य यूय वय इत्येतावादेशौ भवतः।
उदाहरणः युष्मद् जस् -> यूय अद् जस् -> यूयद् अस् -> यूयद् अम् -> यूय् अम् -> यूयम् ।
टिप्पणिः
317 त्वमावेकवचने 7.2.97
अनुवृत्तिः मपर्यन्तस्य, युष्मदस्मदोः, विभक्तौ, अङ्गस्य
अर्थः एकवचने ये युष्मदस्मदी तयोर्मपर्यन्तस्य त्व म इत्येतावादेशौ भवतः।
उदाहरणः युष्मद् अम् -> त्व अद् अम् -> त्वद् अम्
318 द्वितीयायां च 7.2.87
अनुवृत्तिः युष्मदस्मदोः, आ विभक्तौ, अङ्गस्य
अर्थः द्वितीयायां च विभक्तौ परत युष्मदस्मदोराकारादेशो भवति।
उदाहरणः त्वद् अम् -> त्व आ अम् -> त्वाम्। एवं माम्।
319 शसो न 7.1.29
अनुवृत्तिः अङ्गस्य, युष्मदस्मद्भ्याम्
अर्थः युष्मदस्मद्भ्यामुत्तरस्य शसो नकारादेशो भवति।
उदाहरण: युष्मान्। अस्मान्।
टिप्पणि: युष्मद् शस् -> युष्म् आ अस् (द्वितीयायां च)
-> युष्मान् (तस्माच्छसो नः पुंसि)
युष्मद् शस् -> युष्म् आ शस् (द्वितीयायां च)
-> युष्म् आ न् स् (शसो न, आदेः परस्य)
-> युष्म् आ न् (संयोगान्तस्य लोपः)
320 योऽचि 7.2.89
अनुवृत्तिः अङ्गस्य, विभक्तौ, युष्मदस्मदोरनादेशे
अर्थः अजादौ विभक्तावनादेशे युष्मदस्मदोर्यकारादेशो भवति।
.
उदाहरण: त्वया। मया।
टिप्पणि: युष्मद् टा -> त्वद् आ (त्वमावेकवचने)
-> त्वय् आ (योऽचि)
-> त्वया।
321 युष्मदस्मदोरनादेशे 7.2.86
अनुवृत्तिः अङ्गस्य, आ विभक्तौ
अर्थः युष्मद् अस्मद् इत्येतयोरनादेशे विभक्तौ परत आकारादेशो भवति।
.
उदाहरण: युष्माभिः। अस्माभिः।
टिप्पणि: अनादेशे किम्? युष्मत्। अस्मत्।
322 तुभ्य-मह्यौ ङयि 7.2.94
अनुवृत्तिः मपर्यन्तस्य, युष्मदस्मदोः, विभक्तौ, अङ्गस्य
अर्थः युष्मदस्मदोर्मपर्यन्तस्य यथासंख्यं तुभ्य मह्य इत्येतावादेशौ भवतो ङयि परतः।
.
उदाहरण: युष्मद् ङे -> युष्म् अद् ङे -> तुभ्य अद् अम् -> तुभ्य अम् -> तुभ्यम्
टिप्पणि:
323 भ्यसोभ्यम् 7.1.30
अनुवृत्तिः युष्मदस्मद्भ्याम्, अङ्गस्य
अर्थः युष्मदस्मद्भ्यामुत्तरस्य भ्यसः स्थाने भ्यम् (अभ्यम् इति वा) आदेशो भवति।
.
उदाहरण: युष्मभ्यम्। अस्मभ्यम्।
टिप्पणि:
324 एकवचनस्य च 7.1.32
अनुवृत्तिः पञ्चम्या अत्, युष्मदस्मद्भ्याम्, अङ्गस्य
अर्थः युष्मदस्मद्भ्यामुत्तरस्य पञ्चम्या एकवचनस्य च स्थाने अत् इत्ययमादेशो भवति।
.
उदाहरण: युष्मद् ङसि -> युष्मद् अत् -> त्व अद् अत् -> त्वद् अत् -> त्वत्।
325 पञ्चम्या अत् 7.1.31
अनुवृत्तिः भ्यसः, युष्मदस्मद्भ्याम्, अङ्गस्य
अर्थः युष्मदस्मद्भ्यामुत्तरस्य पञ्चम्या भ्यसः स्थाने अत् इत्ययमादेशो भवति।
.
उदाहरण: युष्मद् भ्यस् -> युष्मद् अत् -> युष्म् अद् अत् -> युष्मत्।
326 तव ममौ ङसि 7.2.96
अनुवृत्तिः मपर्यन्तस्य, युष्मदस्मदोः, विभक्तौ, अङ्गस्य
अर्थः युष्मदस्मदोर्मपर्यन्तस्य यथासंख्यं तव मम इत्येतावादेशौ भवतः ङसि विभक्तौ परतः।
.
उदाहरण:
327 युष्मदस्मद्भ्यां ङसोऽश् 7.1.27
अनुवृत्तिः अङ्गस्य
अर्थः युष्मद् अस्मद् इत्येताभ्यामङ्गाभ्यामुत्तरस्य ङस स्थाने अश् इत्ययमादेशो भवति।
.
उदाहरण: युष्मद् ङस् -> तव अद् अस् -> तवद् अश् -> तव् अ -> तव।
328 साम आकम् 7.1.33
अनुवृत्तिः युष्मदस्मद्भ्याम्, अङ्गस्य
अर्थः युष्मदस्मद्भ्यामुत्तरस्य साम स्थाने आकम् इत्ययमादेशो भवति।
.
उदाहरण: युष्मद् आम् -> युष्मद् साम् -> युष्मद् आकम् -> युष्म् अद् आकम् -> युष्माकम्।