329 युष्मदस्मदोः षष्ठी-चतुर्थी-द्वितीयास्थयोर्वान्नावौ 8.1.20
अनुवृत्तिः अनुदात्तं सर्वमपादादौ, पदात्, पदस्य
अर्थः पदादुत्तरयोः षष्ठीचतुर्थीद्वितीयास्थयोरपादादौ वर्तमानयोर्युष्मदस्मदोः पदयोर्यथासंख्यं वाम् नौ इत्येतावादेशौ भवतः। तौ च अनुदात्तौ भवतः।
उदाहरणः युवयोः, आवयोः -> वाम्, नौ।
युवाभ्याम्, आवाभ्याम् -> वाम्, नौ।
युवाम्, आवाम् -> वाम्, नौ।
टिप्पणि: एकवचनबहुवचनान्तयोः आदेशान्तरविधानाद् द्विवचनान्तयोः एतावादेशौ विज्ञायेते।
330 बहुवचनस्य वस्-नसौ 8.1.21
अनुवृत्तिः युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः,अनुदात्तं सर्वमपादादौ, पदात्, पदस्य
अर्थः पदादुत्तरयोः बहुवचनान्तयोः षष्ठीचतुर्थीद्वितीयास्थयोरपादादौ वर्तमानयोर्युष्मदस्मदोः पदयोर्यथासंख्यं वस् नस् इत्येतावादेशौ भवतः। तौ च अनुदात्तौ भवतः।
उदाहरण: युष्माकम्, अस्माकम् -> वः, नः।
युष्मभ्यम्, अस्मभ्यम् -> वः, नः।
युष्मान्, अस्मान् -> वः, नः।
331 तेमयावेकवचनस्य 8.1.22
अनुवृत्तिः युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः,अनुदात्तं सर्वमपादादौ, पदात्, पदस्य
अर्थः पदादुत्तरयोः एकवचनान्तयोः षष्ठीचतुर्थीद्वितीयास्थयोरपादादौ वर्तमानयोर्युष्मदस्मदोः पदयोर्यथासंख्यं ते मे इत्येतावादेशौ भवतः। तौ च अनुदात्तौ भवतः।
उदाहरण: तुभ्यं, मह्यं -> ते, मे।
तव, मम -> ते, मे।
टिप्पणि: द्वितीयान्तस्य आदेशान्तरविधानसामर्थ्याद् षष्ठीचतुर्थ्योः एवायं योगः।
332 त्वामौ द्वितीयायाः 8.1.23
अनुवृत्तिः युष्मदस्मदोः, एकवचनस्य, अनुदात्तं सर्वमपादादौ, पदात्, पदस्य
अर्थः द्वितीयायाः यदेकवचनं तदन्तयोरपादादौ वर्तमानयोर्युष्मदस्मदोः पदयोर्यथासंख्यं त्वा मा इत्येतावादेशौ भवतः। तौ च अनुदात्तौ भवतः।
उदाहरण: त्वाम्, माम् -> त्वा, मा।
वार्त्तिक 1. एकवाक्ये युष्मदस्मदादेशाः वक्तव्याः।
2. एकतिङ् वाक्यम्।
3. एते वान्नावादयोऽनन्वादेशे वा वक्तव्याः।
333 पादः पत् 6.4.130
अनुवृत्तिः भस्य, अङ्गस्य
अर्थः पाद्शब्दान्तस्याङ्गस्य भस्य पद् इत्ययमादेशो भवति।
उदाहरण: सुपदः। सुपदा। सुपाद्भ्याम् ।
334 अनिदितां हल उपधायाः क्ङिति 6.4.24
अनुवृत्तिः नलोपः, अङ्गस्य
अर्थः अनिदितामङ्गानां हलन्तानामुपधाया नकारस्य लोपो भवति, किति ङिति च प्रत्यये परतः।
उदाहरणः प्राङ्। प्राञ्चौ। प्राञ्चः।
टिप्पणिः प्राञ्च् सु -> प्राच् सु (नलोपः)
-> प्रा नुम् च् (उगिदचां)
-> प्रान् (संयोगान्तस्य लोपः)
-> प्रान् क् (क्विन्प्रत्ययस्य कुः)
-> प्राङ्
प्राञ्च् औ -> प्राच् औ -> प्रान् च् औ
-> प्रां च् औ -> प्राञ्च् औ -> प्राञ्चौ।
335 अचः 6.4.138
अनुवृत्तिः अल्लोपः, भस्य, अङ्गस्य
अर्थः अच् इत्ययमञ्चतिर्लुप्तनकारो गृह्यते। तदन्तस्य भस्य अकारस्य लोपो भवति।
336 चौ 6.3.138
अनुवृत्तिः पूर्वस्य दीर्घोऽणः, उत्तरपदे, संहितायाम्
अर्थः चौ परतः पूर्वस्याणो दीर्घो भवति। चौ इत्यनेन अञ्चतिर्लुप्तनकारो गृह्यते। ।
उदाहरणः प्राचः। प्राचा। प्राग्भ्याम्।
337 उद ईत् 6.4.139
अनुवृत्तिः अचः, भस्य, अङ्गस्य
अर्थः उद उत्तरस्य भसँज्ञकस्याच ईकारादेशो भवति।
उदाहरणः उदीचः।
338 समः समि 6.3.93
अनुवृत्तिः अञ्चतौ वप्रत्यये, उत्तरपदे
अर्थः सम् इत्येतस्य समि इत्ययमादेशो भवति, वप्रत्ययान्ते अञ्चतावुत्तरपदे।
उदाहरणः सम्यङ्। सम्यञ्चौ। समीचः।
339 सहस्य सध्रिः 6.3.95
अनुवृत्तिः अञ्चतौ वप्रत्यये, उत्तरपदे
अर्थः सहस्य सध्रिरित्ययमादेशो भवति, वप्रत्ययान्ते अञ्चतावुत्तरपदे।
उदाहरणः सध्र्यङ्। सध्र्यञ्चौ। सध्र्यञ्चः। सध्रीचः।
340 तिरसस्तिर्यलोपे 6.3.94
अनुवृत्तिः अञ्चतौ वप्रत्यये, उत्तरपदे
अर्थः तिरस् इत्येतस्य तिरि इत्ययमादेशो भवति, वप्रत्ययान्तेऽञ्चतौ परतोऽलोपे सति (यदाऽस्य लोपो न भवति)
उदाहरणः तिर्यङ्। तिर्यञ्चौ। तिर्यञ्चः। तिरश्चः। तिर्यग्भ्याम्।
टिप्पणिः तिर्यङ् ।
तिरस् अञ्च् क्विन् (क्विन् , अनुनासिक लोपः)
तिरि अच् -> तिरि अन् च् सु (नुम्, सुलोपः, अनुस्वारः)
तिर्यञ्च् (परसवर्णः, संयोगान्त लोपः)
तिर्यन् -> तिर्यङ् (क्विन्प्रत्ययस्य कुः)
तिरश्चः ।
तिरस् अञ्च् (क्विन् लोपः)
तिरस् च् (अनुनासिक लोपः, भसंज्ञा, अलोपः, अलोपान्नतिर्य्यादेशः)
तिरश्च् शस् (श्चुत्व) -> तिरश्चः
341 नाञ्चेः पूजायाम् 6.4.30
अनुवृत्तिः उपधायाः, क्ङिति, नलोपः, अङ्गस्य
अर्थः पूजायामर्थे अञ्चेरङ्गस्योपधायाः नकारस्य लोपो न भवति।
उदाहरणः प्राङ्। प्राञ्चौ। प्राञ्चः।
टिप्पणिः प्राङ्क्षु, प्राङ्ख़्षु। (ङ्णोः कुक्टुक् शरि, चयोः द्वितीयाः शरि पौष्करसादेरिति वाच्यम्)
342 सान्त-महतः संयोगस्य 6.4.10
अनुवृत्तिः सर्वनामस्थानेऽसम्बुद्धौ, नोपधायाः, अङ्गस्य, दीर्घः
अर्थः सकारान्तस्य संयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घो भवति, असम्बुद्धौ सर्वनामस्थाने परतः।
उदाहरणः महान्। महान्तौ। महान्तः।
टिप्पणिः
343 अत्वसन्तस्य चाधातोः 6.4.14
अनुवृत्तिः सौ, असम्बुद्धौ, उपधायाः., अङ्गस्य, दीर्घः
अर्थः धातुभिन्नस्य अत्वन्तस्य असन्तस्य चाङ्गस्योपधायाः सावसम्बुद्धौ परतो दीर्घो भवति।
उदाहरणः धीमान्। धीमन्तौ। धीमन्तः।
टिप्पणिः अत्वसन्तस्य -> अत् अन्तस्य, अस् अन्तस्य (कथम् ?)
344 उभे अभ्यस्तम् 6.1.5
अनुवृत्तिः द्वे
अर्थः ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे भवतः।
उदाहरणः
टिप्पणिः द्वे इति वर्त्तमाने उभेग्रहणं समुदायसंज्ञाप्रतिपत्त्यर्थम्।
345 नाभ्यस्ताच्छतुः 7.1.78
अनुवृत्तिः नुम्, अङ्गस्य
अर्थः अभ्यस्तादङ्गादुत्तरस्य शतुर्नुम्न भवति।
उदाहरणः ददत्। ददतौ। ददतः।
टिप्पणिः
346 जक्षित्यादयः षट् 6.1.6
अनुवृत्तिः अभ्यस्तम्
अर्थः जक्ष इति धातुरित्यादयश्चान्ये षट् धातवोऽभ्यस्तसंज्ञका भवन्ति
उदाहरणः जक्षत्। जक्षतौ। जक्षतः।
टिप्पणिः
May 31, 2008 at 3:05 am |
मम सकाशे भैमीव्याख्या इति पुस्तकमस्ति| तस्मिन् पुस्तके तदन्दविधि इति वारं वारम् अस्ति| तदन्दतविधि इति किमस्ति?
हिमांशुः
May 31, 2008 at 7:51 am |
तदन्तविधिः येनविधिस्तदन्तस्य (१.१.७२) इति परिभाषासूत्रमवलम्बते।
June 14, 2008 at 7:15 pm |
I have two questions.
1. (३४२) सान्त महतः संयोगस्य ||६।४।१०|| and अत्वसन्तस्य चाधातोः ||६|१|१४|| both cover स् ending nouns. Why the duplication or is there a difference?
2. उगिदचां सर्वनामस्थानेऽघातोः ||७|१|७०|| is specifically for अधातोः and yet the examples with अत्वसन्तस्य चाधातोः are all words derived from dhaatus, e.g., भवत्, गच्छत्, चलत्, पतत्, इत्यादयः|
हिमांशुः|