347 त्यदादिषु दृशोऽनालोचने कञ् च 3.2.60
अनुवृत्तिः क्विन्, सुपि, धातोः, प्रत्ययः, परश्च
अर्थः त्यदादिषु सुबन्तेषूपपदेष्वनालोचनेऽर्थे वर्त्तमानाद् दृशधातोः कञ् प्रत्ययो भवति, चकारात् क्विन् च।
उदाहरणः
टिप्पणि:
348 आ सर्वनाम्नः 6.3.91
अनुवृत्तिः दृग्दृशवतुषु, उत्तरपदे
अर्थः सर्वनाम्नः आकारादेशो भवति दृग्दृशवतुषु परतः।
उदाहरण: तादृक।
तद् दृश् -> तादृश् -> तादृष् -> तादृड् -> तादृग् -> तादृक़्
349 नशेर्वा 8.2.63
अनुवृत्तिः कुः, पदस्य
अर्थः नशेः पदस्य वा कवर्गादेशो भवति।
उदाहरण: नश् -> नक्, नग्, नट्, नड्
350 स्पृशोऽनुदके क्विन् 3.2.58
अनुवृत्तिः सुपि, धातोः, प्रत्ययः, परश्च
अर्थः अनुदके सुबन्त उपपदे स्पृश धातोः क्विन् प्रत्ययो भवति
उदाहरण: घृतस्पृक्, दधृक्
351 र्वोरुपधाया दीर्घ इकः 8.2.76
अनुवृत्तिः धातोः, पदस्य
अर्थः रेफान्तस्य वकारान्तस्य च धातोः पदस्य उपधाया इको दीर्घो भवति।
उदाहरण: पिपठिष् ।
पिपठीः। पिपठिषौ।
352 नुम् विसर्जनीयशर्व्यवायेऽपि 8.3.58
अनुवृत्तिः सः, इण्कोः, अपदान्तस्य मूर्धन्यः, संहितायाम्
अर्थः नुम्व्यवायेऽपि विसर्जनीयव्यवायेऽपि शर्व्यवायेऽपि इण्कोरुत्तरस्य सकारस्य मूर्धन्यादेशो भवति।
उदाहरणः पिपठीष्षु, पिपठीःषु। चिकीः, चिकीर्षौ।
353 वसोः सम्प्रसारणम् 6.4.131
अनुवृत्तिः भस्य, अङ्गस्य
अर्थः वस्वन्तस्याङ्गस्य भस्य सम्प्रसारणं भवति।
उदाहरणः विदुषः।
टिप्पणिः विद्वान्। विद्वांसौ। विद्वासः। विद्वद्भ्याम् (#262)
354 पुंसोऽसुङ् 7.1.89
अनुवृत्तिः सर्वनामस्थाने, अङ्गस्य
अर्थः पुंस इत्येतस्याङ्गस्य सर्वनामस्थाने परतोऽसुङ् इत्ययमादेशो भवति।
उदाहरणः पुमान्
355 अदस औ सुलोपश्च 7.2.107
अनुवृत्तिः सौ, विभक्तौ, अङ्गस्य
अर्थः अदसः सौ परत औकारादेशो भवति। सोश्च लोपो भवति।
उदाहरणः असौ
356 अदसोऽसेर्दादु दो मः 8.2.80
अनुवृत्तिः
अर्थः असकारान्तस्यादसो दादुत्तरस्य वर्णस्य उवर्णादेशो भवति, दकारस्य च मकारादेशो भवति।
उदाहरणः अमू।
357 एत ईद् बहुवचने 8.2.81
अनुवृत्तिः अदसोऽसेर्दात् दो मः
अर्थः असकारान्तस्यादसो दादुत्तरस्य एकारस्य ईकारादेशो भवति, दकारस्य च मकारः बहुवचने।
उदाहरणः अमी।अमीभिः। अमीभ्यः। अमीषाम्। अमीषु।
358 न मु ने 8.2.3
अनुवृत्तिः असिद्धः
अर्थः ने परतो यत् प्राप्नोति तस्मिन् कर्त्तव्ये मुभावो नासिद्धो भवति, किन्तु सिद्ध एव
उदाहरणः अमुना।