पाठ 41 – तिङन्ते भ्वादयः

  

 

402 अनद्यतने लुट्                              3.3.15

अनुवृत्तिः  भविष्यति, धातोः, प्रत्ययः, परश्च

अर्थः  अनद्यतने भविष्यति काले धातोर्लुट् प्रत्ययः परश्च भवति।

उदाहरणम्   एते उन्मीलितारः …. कपिकेतनेन। अल्पैरहोभिर्वयमेव तत्र गन्तारः। सोऽन्नम् दाता । न जायते म्रियते … भविता भूत्वा।

 

टिप्पणी लृटोऽपवादः। अनद्यतन इति बहुव्रीहिनिर्देशः। तेन व्यामिश्रे न भवति – अद्य श्वो वा भविष्यतीति।

 

वार्त्तिक: परिदेवने श्वस्तनी भविष्यदर्थे वक्तव्या - इयं नु कदा गन्ता, यैवं पादौ निदधाति। अयं नु कदाऽध्येता, य एवमनभियुक्तः।

 

403 स्यतासीलृलुटोः              3.1.33

अनुवृत्तिः  धातोः, प्रत्ययः, परश्च

अर्थः  लृ इत्यनेन लृट्लृङोः द्वयोरपि ग्रहणम् । लृलुटोः परतः धातोः स्यतासी प्रत्ययौ यथाक्रमं भवतः।

उदाहरणम् भू तास् ति इति स्थिते।

 

टिप्पणी शबाद्यपवादः। विकरणव्यवधानेऽपि नियमप्रवृत्तिः।

 

 

 

404 आर्धधातुकं शेषः                               3.4.114

अनुवृत्तिः  धातोः, प्रत्ययः, परश्च

अर्थः  धातोर्विहिताः शेषाः (तिङ्शिद्भिन्नाः) प्रत्यया आर्धधातुकसंज्ञका भवन्ति। तिङ् शित् वर्जयित्वाऽन्यः प्रत्ययः शेषः।

उदाहरणम्  भवितास् ति इति स्थिते। इडागमः गुणश्च।

टिप्पणी  

 

 

405 लुटः प्रथमस्य डा रौ रसः                                 2.4.85

अनुवृत्तिः  

अर्थः लुडादेशस्य प्रथमपुरुषस्य स्थाने यथासंख्यं डा रौ रस् इति त्रय आदेशा भवन्ति।

 

उदाहरणम्  भवितास् डा -> भवितास् आ -> भवित् आ -> भविता।

 

टिप्पणी डित्त्वसामर्थ्याद् अभस्यापि टेर्लोपः। टेः (#242)

 

 

 

406 तासस्त्योर्लोपः                                            7.4.50

अनुवृत्तिः  सः सि, अङ्गस्य

अर्थः  तासेरस्तेश्च सकारस्य सकारादौ प्रत्यये परतो लोपो भवति।

 

उदाहरणम् भवितास् सि -> भवितासि।

 

 

 

407 रि च                                                7.4.51

अनुवृत्तिः  तासस्त्योर्लोपः, सः, अङ्गस्य,

अर्थः  रेफादौ प्रत्यये परतस्तासेरस्तेश्च सकारस्य लोपो भवति।

उदाहरणम्   भवितास् रौ -> भवितारौ। भवितास् रस् -> भवितारः। भवितास्थः। भवितास्थ। भवितास्मि। भवितास्वः। भवितास्मः।

 

 

 

 

408 लृट् शेषे च                                         3.3.13

अनुवृत्तिः  क्रियायां क्रियार्थायाम्, भविष्यति, धातोः, प्रत्ययः, परश्च

अर्थः  शेषे अर्थात् केवले भविष्यति काले, चकारात् क्रियार्थायां क्रियायामुपपदे भविष्यति च धातोर्लृट् प्रत्ययो भवति।

उदाहरणम्   स्यः। इट्। भविष्यति। भविष्यतः। भविष्यन्ति। भविष्यसि। भविष्यथः। भविष्यथ। भविष्यामि। भविष्यावः। भविष्यामः।

 

 

 

Leave a Reply