434 लुङ् 3.2.110
अनुवृत्तिः भूते, धातोः, प्रत्ययः, परश्च
अर्थः भूतेऽर्थे वर्त्तमानाद् धातोः लुङ् प्रत्ययः परश्च भवति।
उदाहरणम्
435 माङि लुङ् 3.3.175
अनुवृत्तिः धातोः, प्रत्ययः, परश्च
अर्थः माङ्युपपदे धातोर्लुङ् प्रत्ययः भवति।
उदाहरणम् मा कार्षीत्। मा ते सङ्गोऽस्त्वकर्मणि।
टिप्पणी सर्वलकाराणामपवादः।
436 स्मोत्तरे लङ् च 3.3.176
अनुवृत्तिः माङि लुङ्, धातोः, प्रत्ययः, परश्च
अर्थः स्मशब्दोत्तरे माङ्युपपदे धातोर्लङ् प्रत्ययो भवति, चकाराल्लुङ् च।
उदाहरणम् मा स्म करोत्। मा स्म कार्षीत्। मा स्म हरत्।
टिप्पणी
437 च्लि लुङि 3.1.43
अनुवृत्तिः धातोः, प्रत्ययः, परश्च
अर्थः लुङि परतो धातोः च्लिप्रत्ययो भवति।
उदाहरणम्
टिप्पणिः शबाद्यपवादः
438 च्लेः सिच् 3.1.44
अनुवृत्तिः लुङि
अर्थः च्लेः स्थाने सिजादेशो भवति लुङि परतः।
उदाहरणम्
439 गाति-स्था-घु-पा-भूभ्यः सिचः परस्मैपदेषु 2.4.77
अनुवृत्तिः लुक्
अर्थः गाति-स्था-घु-पा-भू इत्येतेभ्यो धातुभ्यः परस्य सिचो लुग् भवति परस्मैपदेषु परतः।
उदाहरणम्
440 भू सुवोस्तिङि 7.3.88
अनुवृत्तिः न पिति सार्वधातुके, गुणः, अङ्गस्य
अर्थः भू सू एतयोः सार्वधातुके तिङि परे गुणो न भवति।
उदाहरणम् अभूत्। अभूताम्। अभूवन्। अभूः। अभूतम्। अभूत। अभूवम्। अभूव। अभूम।
441 न माङ्योगे 6.4.74
अनुवृत्तिः लुङ्लङ्लृङ्क्ष्वट्, आट्, अङ्गस्य
अर्थः लुङ् लङ् लृङ्क्षु परतो यौ अट् आट् आगमावुक्तौ तौ माङ्योगे न भवतः।
उदाहरणम् मा भवान् भूत्। मा स्म भवत्। मा स्म भूत्।
442 लिङ् निमित्ते लृङ् क्रियातिपत्तौ 3.3.139
अनुवृत्तिः भविष्यति, धातोः, प्रत्ययः, परश्च
अर्थः भविष्यति काले लिङ् निमित्ते क्रियातिपत्तौ सत्यां धातोर्लुङ् प्रत्ययो भवति।
उदाहरणम् सुवृष्टिश्चेदभविष्यत् तदा सुभिक्षमभविष्यत्। दक्षिणेन चेदागमिष्यत्, न शकटं पर्याभविष्यत्।