पाठ 22 – अजन्तपुंल्लिङ्गाः ९
December 7, 2007
186 बहु-गण-वतु-डति संख्या 1.1.23
अनुवृत्तिः
अर्थः बहुगणवतुडति इत्येते संख्यासंज्ञा भवन्ति।
Let the words बहु and गण, and those which end in वतु and डति be called संख्या.
उदाहरणः कति
187 डति च 1.1.25
अनुवृत्तिः षट्, संख्या
अर्थः डत्यन्ता संख्या षट्संख्या स्यात्।
Let a संख्या which ends in डति be called षट् ।
उदाहरण: Thus the word कति is called षट्.
188 षड्भ्यो लुक् 7.1.22
अनुवृत्तिः अङ्गस्य, जश्शसोः
अर्थः षट्संज्ञकेभ्यः उत्तरयोर्जश्शसोर्लुग्भवति।
Let there be deletion (by लुक्) of जस् and शस् after words termed षट् ।
उदाहरण: कति (formed according to किमः संख्यापरिमाणे डति च 5.2.41) is declined only in the plural. So for प्रथमा and द्वितीया बहुवचन, कति+ अस् -> कति. Now the next rule is invoked.
189 प्रत्ययस्य लुक्श्लुलुपः 1.1.61
अनुवृत्तिः अदर्शनम्
अर्थः लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात् तत्तत्संज्ञं स्यात् ।
Let the deletion of a प्रत्यय when it is caused by the words लुक्, श्लु, or लुप् be designated by these terms respectively.
उदाहरण: The deletion of अस् after कति, being enjoined by the word लुक्, gets the designation लुक् ।
190 प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62
अनुवृत्तिः
अर्थः प्रत्यये लुप्तेऽपि तदाश्रितं कार्यं स्यात्। इति ‘जसि च’ (#16
इति गुणे प्राप्ते।
When deletion of a प्रत्यय has taken place, the प्रत्यय shall still exert its influence, and the operations dependent on it shall take place as if it were present.
उदाहरण:
टिप्पणि: ‘प्रत्ययः’ इति वर्त्तमाने पुनः प्रत्ययग्रहणं किम्? कृत्स्नप्रत्ययलोपे यथा स्यात्। प्रत्ययलक्षणमिति किम्? ‘यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्’ (#133).
191 न लुमताऽङ्गस्य 1.1.63
अनुवृत्तिः प्रत्ययलोपे प्रत्ययलक्षणम्
अर्थः लुमता शब्देन लुप्ते तन्निमित्तमङगकार्यं न स्यात्।
An operation for an अङ्ग does not apply (even though it would otherwise apply by #190) if the प्रत्यय in question is deleted by means of ‘लु deletion’ (लुक्, श्लु, or लुप्)
उदाहरण: कति २। कतिभिः। कतिभ्यः २। कतीनाम्। कतिषु। युष्मदस्मद्षट्संज्ञकास्त्रिषु सरूपाः। त्रिशब्दो नित्यं बहुवचनान्तः। त्रयः। त्रीन्। त्रिभिः। त्रिभ्यः २।
Posted by Srinivasa