अत सातत्य गमने
443 अत आदेः 7.4.70
अनुवृत्तिः दीर्घः, लिटि, अभ्यासस्य, अङ्गस्य
अर्थः अभ्यासस्यादेरकारस्य दीर्घो भवति लिटि परतः।
उदाहरणम् अ अत् अ -> आ अत् अ (अत आदेः) -> आ आत् अ (अत उपधायाः) -> आत
टिप्पणी अतो गुणे इत्यनेन पररूपत्वे प्राप्ते तदपवादो दीर्घत्वं विधीयते।
लङ्
444 आडजादीनाम् 6.4.72
अनुवृत्तिः लुङ् लङ् लृङ्क्षु, उदात्तः, अङ्गस्य
अर्थः अजादीनां अङ्गानां आट् आगमो भवति, लुङ् लङ् लृङ्क्षु परतः, उदात्तश्च स भवति।
उदाहरणम् अत् शप् तिप् -> अत् अ त् (इतश्च) -> आट् अत् अ त् (आडजादीनाम्) -> आ अत् अ त् -> आ त् अ त् (आटश्च – वृद्धिः) -> आतत्
लुङ्
445 अस्तिसिचोऽपृक्ते 7.3.96
अनुवृत्तिः ईट्, हलि, सार्वधातुके, अङ्गस्य
अर्थः अस्तेरङ्गात् सिजन्ताच्च उत्तरस्यापृक्तस्य हलादेः सार्वधातुकस्य ईडागमो भवति।
उदाहरणम् अत् तिप् -> अत् च्लि तिप् -> अत् सिच् तिप् -> आट् अत् सिच् तिप् -> आत् स् त् -> आत् इस् त् (आर्धधातुकस्येड् वलादेः) -> आत् इस् ईट् त् (अस्तिसिचोऽपृक्ते) -> आत् इस् ईत्
446 इट ईटि 8.2.28
अनुवृत्तिः सस्य, लोपः
अर्थः इट उत्तरस्य सकारस्य लोपो भवति ईटि परतः
उदाहरणम् आत् इ ईत्
वार्त्तिकम् सिज्लोप एकादेशे सिद्धो वाच्यः
उदाहरणम् आतीत् (अकः सवर्णे दीर्घः 6.1.97)
आतिष्टाम। आत् इस् झि इति स्थिते
447 सिजभ्यस्तविदिभ्यश्च 3.4.109
अनुवृत्तिः झेर्जुस्, लस्य, ङितः,
अर्थः सिचः परस्य अभ्यस्तसंज्ञकेभ्यो वेत्तेश्चोत्तरस्य ङितो झेर्जुसादेशो भवति।
उदाहरणम् आत् इस् झि -> आत् इस् झुस् -> आतिषुः (आदेशप्रत्ययोः)
448 ह्रस्वं लघु 1.4.10
अनुवृत्तिः
अर्थः ह्रस्वमक्षरं लघुसंज्ञकं स्यात्।
उदाहरणम्
449 संयोगे गुरु 1.4.11
अनुवृत्तिः ह्रस्वम्
अर्थः संयोगे परतो ह्रस्वमक्षरं गुरुसंज्ञकं भवति।
उदाहरणम्
450 दीर्घं च 1.4.12
अनुवृत्तिः गुरु
अर्थः दीर्घं चाक्षरं गुरुसंज्ञकं भवति।
उदाहरणम्
षिध गत्याम्
451 पुगन्तलघूपधस्य च 7.3.86
अनुवृत्तिः सार्वधातुकार्धधातुकयोः, गुणः, अङ्गस्य
अर्थः पुगन्तस्याङ्गस्य लघूपधस्य च इकः सार्वधातुके आर्धधातुके च परतो गुणो भवति।
उदाहरणम् सिध् तिप् -> सिध् शप् तिप् -> सिध् अ ति -> सेधति।
लिट्
452 असंयोगाल्लिट् कित् 1.2.5
अनुवृत्तिः अपित्
अर्थः असंयोगान्ताद्धातोः परोऽपिल्लिट् प्रत्ययः किद्वद् भवति।
उदाहरणम् षिध गत्याम् -> सिध् (धात्वादेः षः सः) -> सिध् तिप् -> सिध् णल् -> सि सिध् अ (लिटि धातोरनभ्यासस्य, हलादि शेषः) -> सि सेध् अ (असंयोगाल्लिट् कित्) -> सिषेध (आदेशप्रत्ययोः)