परीक्षापत्रम्

February 16, 2008

1. निम्नलिखितानि रूपाणि साधयत – सर्वेषाम्, रामौ, रामैः, रामाः

2. रामाणाम्, हरी, विश्वपः, सर्वस्मात्, सर्वस्मै – एतेषु चतुर्णां साधुत्वं विधेयं

3. बालकात्, बालकस्य, रामयोः – एतानि पदानि संक्षिप्तोपयुक्तप्रक्रियया साधनीयानि

4. रामान्, रामाय, सर्वे, विश्वपौ – एते प्रयोगाः सूत्रनिर्देशेन साधु साधनीयाः।

5. हरीन्, हे हरे, पूर्वे, उत्तराः कुरवः, रामेभ्यः – एते प्रयोगाः साध्यन्ताम्।

6. त्रयः, द्वाभ्याम्, हरय:, हरिणा, हरिभिः – एषु चतुर्णां साधुत्वं विधाय युष्मद् शब्दस्य द्वितीयायां रूपाणि लिखत।

7. टि, भ, घि, उपधा, नदी – संज्ञासूत्राणामर्थान् विलिख्य, एतेषामुदाहराणानि साधनीयानि।

8. मुनये, पत्या, भूपतये, सखीन् – एषां सिद्धिः प्रदर्शनीया।

9. हर्योः, सखा, हरीणाम्, मुनौ – एतानि रूपाणि साधयत।

10. सखायौ, त्रयाणाम्, पप्याम्, पपी – एते कथं सिद्ध्यन्ति।

11. बहुश्रेयस्यै, सख्युः, बहुश्रेयस्याम्, हे बहुश्रेयसि, निर्जरसौ, पूर्वस्मात् – एषु स्वेच्छया पञ्च प्रयोगाः साधनीयाः।

12. सुधियौ, क्रोष्टा, स्वभुवौ, गावौ, नद्याः – एतेषु चतुर्णां साधुत्वं विधेयं ।

13. हे पितः, धाता, क्रोष्टुः, वर्षाभ्वौ, ना – एते प्रयोगाः सूत्रनिर्देशेन साधु साधनीयाः।

14. साधोः, पितरः, क्रोष्टूनाम्, करभ्वः, नृणाम् – एते प्रयोगाः साध्यन्ताम्।

15. पितुः, क्रोष्ट्रे, धातॄणाम्, पितरौ, गाम् – एषां सिद्धिः प्रदर्शनीया।


परीक्षापत्रम्

August 31, 2007

1. एतान् प्रयोगान् साधयत – शार्ङिञ्जयः, विद्वाँल्लिखति, प्रश्नः, शान्तः

2. सवर्णसँज्ञासूत्रं उल्लिख्य थ, म, इ, क, ड वर्णेषु कयोरपि द्वयोः स्थानम् प्रयत्नञ्च लिखत।

3. एतन्मुरारि, उत्थानम् , षट्त्सन्तः, संस्कर्ता, प्रत्यङ्ङात्मा, तच्छ्लोकेन  एषु यथेच्छं चतुर्णां प्रयोगाणां सिद्धिं प्रदर्शयत।

4  वाग्घरिः, प्राङ्खषष्ठः, नॄँ:पाहि, शिवच्छाया – एते प्रयोगाः सूत्रनिर्देशेन साधु साधनीयाः।

5. तच्छिवः, कांस्कान् , भवाँस्तनोति, शिवोऽर्च्यः  – एते प्रयोगाः साध्यन्ताम्।

6. सन्नच्युतः, एषोऽत्र, चक्रिँस्त्रायस्व, हरेऽव, शिवो वन्द्यः, देवा इह, एषको रुद्रः – एतेषु पञ्चानां साधुत्वं विधाय मनस् +रथ इत्यत्र सन्धौ किं रूपम् इति सप्रमाणं लिखत ।

7. शम्भू राजते. सैष दाशरथी रामः, स शम्भुः, विष्णुस्त्राता, हरिं वन्दे, षण्णाम् – एते प्रयोगाः साध्यन्ताम्


परीक्षापत्रम्

July 9, 2007

1. झय्, यर्, इच्, अल् प्रत्याहारान् सूत्रनिर्देशपूर्वकं साधयत।

2. सवर्णसँज्ञासूत्रं टिसँज्ञासूत्रञ्च सार्थमुल्लिख्य य, म, श, अ वर्णेषु कयोरपि द्वयोः स्थानम् आभ्यन्तरप्रयत्नञ्च लिखत।

3. प्रष्ठौहः, गोऽग्रम्, किम्वुक्तम्, अमी ईशाः, कृष्णर्द्धिः, उ उमेशः – एषु प्रयोगेषु सन्धिकार्याणि लिखत।

4. हर इह, गो अग्रम्, शिवेहि, ओष्णम् – एते प्रयोगाः सूत्रनिर्देशेन साधु साधनीयाः।

5. गवेन्द्र:, हरेऽव, गङ्गौघः, प्रार्च्छति, गवाग्रम् – एते प्रयोगाः साध्यन्ताम्।

6. धात्रंशः, वाप्यश्वः, सुखार्तः, गौर्य्यौ, मनीषा, प्रेजते, गवाक्षः – एषु यथेच्छं चतुर्णां प्रयोगाणां सिद्धिं प्रदर्श्य गङ्गे अमू, अहो ईशा:, विष्णो इति , रामकृष्णावमू आसाते इत्यत्र सन्धिः कथन्न इति लिखत।


परीक्षापत्रम्

June 15, 2007

1.      झय्, यर्, इच्, अल् प्रत्याहारान् सूत्रनिर्देशपूर्वकं साधयत।

2.      अ, य, स वर्णानां बाह्यप्रयत्नाः लेख्याः

3.      सवर्णसँज्ञासूत्रं टिसँज्ञासूत्रञ्च सार्थमुल्लिख्य य, म, श, अ वर्णेषु कयोरपि द्वयोः स्थानमाभ्यन्तरप्रयत्नञ्च लिखत।

4.      ऋ , औ, भ, ल वर्णानां स्थानानि प्रयत्नांश्च विलिख्य अल्  प्रत्याहारं सूत्रनिर्देशपूर्वकं साधयत ।

5.      क, प, उ वर्णानां स्थानानि प्रयत्नांश्च विलिख्य, ‘अणुदित्सवर्णस्य चाप्रत्ययः’ इत्यस्य अर्थं उदाहरणञ्च लिखत।

6.      आदिरन्त्येन सहेता, परः संनिकर्षः संहिता इति सूत्रद्वयस्य अर्थौ विलिख्य आभ्यन्तरप्रयत्नस्य भेदान् लिखत।

7.      अच् प्रत्याहारं संसाध्य ‘ऊकालोऽज्झ्रस्वदीर्घप्लुतः’ इति सूत्रस्य सोदाहरणं अर्थं लिखत।

8.      ‘सुप्तिङन्तं पदम्’ इति सूत्रं सोदाहरणं व्याख्याय र, श, ह वर्णेषु कयोरपि द्वयोः पृथक्-पृथक् बाह्यप्रयत्नान् लिखत।

9.      अ, ट, ल, श वर्णानां स्थानमाभ्यन्तरप्रयत्नं च लिखित्वा ऋकारस्य त्रिंशद् भेदान् प्रदर्शयत ।

10.  ‘अणुदित्सवर्णस्य चाप्रत्ययः’ इत्यस्मिन् सूत्रे ‘अप्रत्ययः’ इत्यस्य पदस्य अभिप्रायं स्पष्टीकुरुत।

11.  ‘अदर्शनं लोपः’ इत्यस्मिन् सूत्रे ‘लोपः’ इत्यस्य पदस्य विवेचनं कुरुत ।

12.  सवर्ण,संहिता,संयोगसंज्ञाविधायकसूत्राणि विलिख्य, इ-घ-ज-ष वर्णानां स्थानमाभ्यन्तरप्रयत्नञ्च लिखत।