192 त्रेस्त्रयः 7.1.53
अनुवृत्तिः अङ्गस्य, आमि
अर्थः ‘त्रि’ शब्दस्य आमि परे ‘त्रय’ इत्ययमादेशो भवति।
त्रय is the substitute of त्रि when आम् follows.
उदाहरणः त्रयाणाम्। त्रिषु। गौणत्वेऽपि – प्रियत्रयाणाम्।
टिप्पणि: त्रि+आम् -> त्रय आम् -> त्रय नाम् (#148) -> त्रया नाम् (#149) -> त्रयाणाम् (#138)। ‘त्रीणाम्’ इत्यपि छन्दसि (‘त्रीणामपि समुद्राणाम्’) ।
193 त्यदादीनामः 7.2.102
अनुवृत्तिः अङ्गस्य, विभक्तौ
अर्थः ‘त्यत्’ इत्येवमादिनामकारादेशो भवति विभक्तौ परतः।
अ is the substitute of त्यत् etc when विभक्ति follows.
उदाहरण: द्वौ २। द्वाभ्याम् ३। द्वयोः २।
टिप्पणि:
1. Scope – (#151) त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि
2. वार्त्तिक – द्विपर्यन्तानामेवेष्टिः
3. द्वि औ -> अन्त्यादेश, पररूप।
4. द्वि भ्याम् -> अन्त्यादेश, पररूप, सुपि च (#141)
5. द्वि ओस् -> अन्त्यादेश, ओसि च (#147)
6. पपी, वातप्रमी, बहुश्रेयसी
194 यू स्त्र्याख्यौ नदी 1.4.3
अनुवृत्तिः
अर्थः ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः।
Words ending in ई and ऊ, always feminine and having no masculine of the same form, are called नदी.
उदाहरण: कुमारी, गौरी, लक्ष्मीः
टिप्पणि:
वार्त्तिक – प्रथमलिङ्गग्रहणं च। यः शब्दः प्रथमं स्त्रीलिङ्गः स्यात् पश्चादुपसर्जनदशायां लिङ्गविपर्ययेऽपि तस्य नदीसंज्ञा भवतीति भावः। बहुश्रेयसी।
195 अम्बार्थनद्योर्ह्रस्वः 7.3.107
अनुवृत्तिः अङ्गस्य, सम्बुद्धौ
अर्थः अम्बार्थानामङ्गानां नद्यन्तानां च ह्रस्वो भवति सम्बुद्धौ परतः ।
The short vowel shall be the substitute of certain words signifying ‘mother’ and of words called ‘नदी’ when सम्बुद्धि follows.
उदाहरण: हे बहुश्रेयसि।
196 आण्नद्याः 7.3.112
अनुवृत्तिः अङ्गस्य, ङिति
अर्थः नद्यन्तादङ्गादुत्तरस्य ङितः प्रत्ययस्याडागमो भवति।
उदाहरण: ङितः ङिद्वचनस्य अथवा ङे, ङसि, ङस्, ङि इत्येतेषाम्
197 आटश्च 6.1.90
अनुवृत्तिः संहितायाम्, अचि, एकः पूर्वपरयोः, वृद्धिः
अर्थः आटोऽचि परे वृद्धिरेकादेशो भवति।
When अच् comes after आट्, वृद्धि is the single substitute for both.
उदाहरण: बहुश्रेयस्यै। बहुश्रेयस्याः २। बहुश्रेयसीनाम्।
198 ङेराम्नद्याम्नीभ्यः 7.3.116
अनुवृत्तिः अङ्गस्य
अर्थः नद्यन्तादाबन्तान्नीत्येतस्माच्चोत्तरस्य ङेरामित्ययमादेशो भवति।
आम् is the substitute of ङि after words ending in नदी and in the feminine termination आप् and the word नी.
उदाहरण: बहुश्रेयस्याम्। अतिलक्ष्मीः – अङ्यन्तत्वान्न सुलोपः (#179)