पाठ 25 – अजन्तपुंल्लिङ्गाः १२

January 25, 2008

207 विभाषा तृतीयादिष्वचि 7.1.97

अनुवृत्तिः तृज्वत् क्रोष्टुः, अङ्गस्य

अर्थः तृतीयादिषु अजादिषु विभक्तिषु परतो क्रोष्टुर्विभाषा तृज्वत् भवति।

An अङ्ग, namely क्रोष्टु, is treated optionally as if it ended in तृच्, when the 3rd or any subsequent case affix that begins with a vowel follows.

उदाहरणः क्रोष्ट्रा । क्रोष्ट्रे।

208 ऋत उत् 6.1.111

अनुवृत्तिः ङसिङसोः, अति, एकः पूर्वपरयोः, संहितायाम्

अर्थः ऋकारान्तात् उत्तरयोः ङसिङसोरति परतः पूर्वपरयोः स्थाने उकार एकादेशो भवति, संहितायां विषये। रपरः।

When the अ of ङसि and ङस् (5th and 6th singular) comes after ऋ, then उ is the single substitute for both.

उदाहरण: क्रोष्ट्(ऋ+अ -> उर्) स्

टिप्पणिः द्वयोः षष्ठीनिर्दिष्टयोः स्थाने यः स लभतेऽन्यतरव्यपदेशमिति ‘उरण् रपरः’।

209 रात् सस्य 8.2.24

अनुवृत्तिः संयोगान्तस्य लोपः, पदस्य

अर्थः संयोगान्तस्य पदस्य यो रेफस्तस्मादुत्तरस्य सकारस्य लोपो भवति।

There is deletion of स्, but not of any other letter, when it comes at the end of a conjunct, after र्.

उदाहरण: रेफस्य विसर्गः। क्रोष्टुः। क्रोष्टोः।

टिप्पणिः सिद्धे सति आरम्भो नियमार्थः – रात्सस्यैव लोपो भवति, नान्यस्येति।

वार्तिक: नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन ।

In opposition to a preceding rule (#113), the आगम नुट् (#148) takes effect in preference to नुम् (#245), the rule अचि र ऋतः (#224) and the resemblance to what ends in तृच् (#203) – the enunciation of each of which is subsequent to #148 in the order of the अष्टाध्यायी.

#148 – 7.1.54

#245 – 7.1.73

#224 – 7.2.100

#203 – 7.1.95

उदाहरण: क्रोष्टूनाम्। क्रोष्टरि।

210 ओः सुपि 6.4.83

अनुवृत्तिः अनेकाचोऽसंयोगपूर्वस्य, अचि, यण्, अङ्गस्य. धातोः

अर्थः धात्ववयवः संयोगः पूर्वो यस्मादुवर्णान्न भवति, तदन्तस्याङ्गस्यानेकाचोऽजादौ सुपि परतो यणादेशो भवति।

An अङ्ग, which consists of more than one vowel and which ends in उ, not preceded by a conjunct (संयोग) contained within a verbal root (धातु), is replaced with यण् when a सुप् beginning with a vowel follows.

उदाहरण: खलप्वौ। खलप्वः। एवं सुल्वादयः।

211 वर्षाभ्वश्च 6.4.84

अनुवृत्तिः सुपि, अचि, यण्, अङ्गस्य.

अर्थः वर्षाभू इत्येतस्याङ्गस्य अजादौ सुपि परतो यणादेशो भवति।

And the substitute of वर्षाभू, shall be यण्, when a vowel follows.

उदाहरण: वर्षाभ्वौ।

वार्तिक: दृन्करपुनःपूर्वस्य भुवो यण् वक्तव्यः।

यण् should be mentioned as the substitute of भू, when preceded by दृन्, कर and पुनः।

उदाहरण: दृन्भ्वौ।

वार्तिक: ऋवर्णान्नस्य णत्वं वाच्यम्।

ण् should be mentioned as the substitute for न् after ऋ and ॠ.

उदाहरण: धातॄणाम्। एवं नप्त्रादयः।

टिप्पणिः नप्त्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम्।

उदाहरण: पिता, पितरौ, पितरः, पितरम् । शेषं धातृवत्। एवं जामात्रादयः। ना। नरौ।

212 नृ च 6.4.6

अनुवृत्तिः छन्दस्युभयथा, नामि, अङ्गस्य, दीर्घः

अर्थः नृ इत्येतस्य अङ्गस्यापि नामि परत उभयथा भवति, छन्दसि विषये।

The short vowel of an अङ्ग, namely नृ, is optionally replaced with its long counterpart in the Vedic when नाम् follows.

उदाहरण: त्वं नृणां नृपते। त्वं नॄणां नृपते।

213 गोतो णित् 7.1.90

अनुवृत्तिः सर्वनामस्थाने, अङ्गस्य

अर्थः गोशब्दात्परं सर्वनामस्थानं णित् भवति।

A सर्वनामस्थान ending after an अङ्ग, namely गो, is treated as if marked with a णित्.

उदाहरण: गौः। गावौ। गावः।

214 औतोऽम् शसोः 6.1.93

अनुवृत्तिः एकः पूर्वपरयोः, अचि, संहितायाम्

अर्थः ओकारान्ताद् अम्शसोः अचि परतः पूर्वपरयोः स्थाने आकार एकादेशो भवति, संहितायां विषये।

When the अच् of अम् or शस् comes after ओ, the single substitute for both is आ.

उदाहरण: गाम्। गावौ। गाः। गवा। गवे। गोः २।

215 रायो हलि       7.2.85

अनुवृत्तिः आः, विभक्तौ, अङ्गस्य

अर्थः रै इत्येतस्याङ्गस्य हलदौ विभक्तौ परत आकारादेशो भवति।

The final sound segment of an अङ्ग, namely रै, is replaced by आ when a विभक्ति beginning with हल् follows.

उदाहरण: राः। रायौ। रायः। राभ्यामित्यादि।


पाठ 24 – अजन्तपुंल्लिङ्गाः ११

January 12, 2008

 199 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ                              6.4.77

अनुवृत्तिः  अङ्गस्य

अर्थः  श्नुप्रत्ययान्तस्याङ्गस्य धातोः इवर्णोवर्णान्तस्य ‘भ्रु’ इत्येतस्य च इयङ्, उवङ् – इत्येतावादेशौ भवतोऽजादौ प्रत्यये परतः ।

The final इ, उ of an अङ्ग which ends in the प्रत्यय श्नु or of a धातु or of भ्रु, is replaced with इयङ्, उवङ् respectively when followed by a प्रत्यय beginning with a vowel.

उदाहरणः 

200 एरनेकाचोऽसंयोगपूर्वस्य                         6.4.82

अनुवृत्तिः   अचि, यण्, अङ्गस्य, धातोः

अर्थः  धातोरवयवः संयोगः पूर्वो यस्मादिवर्णान्न भवति, तदन्तस्याङ्गस्यानेकाचोऽचि परतो यणादेशो भवति।

An अङ्ग which consists of more than one vowel and ends in an इ, where इ is not preceded by a संयोग contained within a verbal root, is replaced with यण्, when a प्रत्यय beginning with a vowel follows.

उदाहरण:  प्रध्यौ। प्रध्यम्। प्रध्यः। प्रध्यि। ग्रामण्याम्।

201 गतिश्च                                                        1.4.60

अनुवृत्तिः  प्रादयः, क्रियायोगे

अर्थः  प्रादयः क्रियायोगे गतिसंज्ञकाश्च भवन्ति।

Items in the प्रादि list are also termed गति when they are used with a क्रिया or verb

उदाहरण:  गतिकारकेतरपूर्वपदस्य यण् नेष्यते। शुद्धधियौ।

 202  न भूसुधियोः                                                          6.4.85

अनुवृत्तिः  सुपि, अचि, यण्, अङ्गस्य

अर्थः  भू, सुधी इत्येतयोरङ्गयोर्यणादेशो न भवति, अजादौ सुपि परतः।

The final vowels of अङ्ग भू, सुधी are not replaced with their corresponding यण् equivalents when a सुप् beginning in a vowel follows.

उदाहरण:  सुधियौ।

203 तृज्वत्  क्रोष्टुः                                                             7.1.95

अनुवृत्तिः  सर्वनामस्थाने, असम्बुद्धौ, अङ्गस्य

अर्थः  सर्वनामस्थाने असंबुद्धौ परतः तुन् प्रत्ययान्तः क्रोष्टुशब्दस्तृज्वत् भवति।

The अङ्ग क्रोष्टु (‘jackal’) is treated as if ending in the प्रत्यय तृच् when a सर्वनामस्थान, other than a सम्बुद्धि, follows.

रूपातिदेशः – तृजन्तस्य यद् रूपं तदस्य भवतीत्यर्थः।

उदाहरण:   क्रोष्टु -> क्रोष्टृ।

204 ऋतो ङिसर्वनामस्थानयोः                                 7.3.110

अनुवृत्तिः  गुणः, अङ्गस्य

अर्थः ऋकारान्तस्याङ्गस्य ङौ सर्वनामस्थाने च परतो गुणो भवति।

A replacement in गुण comes in place of the final segment of an अङ्ग which ends in ऋ, when ङि and सर्वनामस्थान follows.

उदाहरण:

205 ऋदुशनस्पुरुदंसोऽनेहसां च                                              7.1.94

अनुवृत्तिः  अनङ् सौ, असंबुद्धौ, अङ्गस्य

अर्थः ऋकारान्तानामङ्गानाम्, उशनस्, पुरुदंसस्, अनेहस् इत्येतेषां चाङ्गानामसंबुद्धौ सौ परतोऽनङादेशो भवति।

The final sound segment of an अङ्ग which ends in ऋत् or of उशनस्, पुरुदंसस्, अनेहस् , is replaced with अनङ् when a non-सम्बुद्धि सु follows.

उदाहरण:

206 अप्तृन्-तृच् स्वसृ-नप्तृ-नेष्टृ-त्वष्टृ-क्षत्तृ-होतृ-पोतृ-प्रशास्तॄणाम्        6.4.11

अनुवृत्तिः   सर्वनामस्थानेऽसम्बुद्धौ, उपधायाः, अङ्गस्य, दीर्घः

अर्थः अप्, तृन्, तृच् …प्रशास्तृ इत्येतेषामङ्गानामुपधायाः सम्बुद्धिभिन्ने सर्वनामस्थाने परतो दीर्घो भवति।

The next to the last vowel of an अङ्ग, namely अप् ‘water’, or of an अङ्ग which ends in तृन् or तृच्, or else an अङ्ग स्वसृ, नप्तृ etc, is replaced with its दीर्घ counterpart when a सर्वनामस्थान प्रत्यय other than सम्बुद्धि follows.

उदाहरण:  क्रोष्टा। क्रोष्टारौ २। क्रोष्टारः। क्रोष्टारम्। क्रोष्टून्।