383 युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः 1.4.105
अनुवृत्तिः
अर्थः युष्मदि शब्द उपपदे समानाधिकरणे सति (=समानाभिधेये तुल्यकारके सति) स्थानिनि (=अप्रयुज्यमाने) अपि (=प्रयुज्यमानेऽपि) मध्यमपुरुषो भवति।
उदाहरणम् त्वं पचसि।
384 अस्मद्युत्तमः 1.4.107
अनुवृत्तिः उपपदे, समानाधिकरणे, स्थानिन्यपि
अर्थः अस्मद्युपपदे समानाभिधेये सति प्रयुज्यमानेऽप्यप्रयुज्यमानेऽप्युत्तमपुरुषो भवति।
उदाहरणम् अहं पचामि।
385 शेषे प्रथमः 1.4.108
अनुवृत्तिः
अर्थः मध्यमोत्तमविषयादन्य शेषः। यत्र युष्मदस्मदी समानाधिकरणे उपपदे न स्तः, तस्मिन् शेषविषये प्रथमपुरुषो भवति।
उदाहरणम् पचति। भू ति इति जाते।
टिप्पणी शेष इति युष्मदस्मदोरभावः न तु युष्मदस्मदोरन्यस्य सद्भावः।
386 तिङ् शित् सार्वधातुकम् 3.4.113
अनुवृत्तिः धातोः, प्रत्ययः, परश्च
अर्थः धातोर्विहिताः तिङः शितश्च प्रत्यया सार्वधातुकसंज्ञका भवन्ति।
उदाहरणम्
387 कर्त्तरि शप् 3.1.68
अनुवृत्तिः सार्वधातुके, धातोः, प्रत्ययः, परश्च
अर्थः कर्तृवाचिनि सार्वधातुके परतो धातोः शप् प्रत्ययो भवति।
उदाहरणम् भू अ ति।
388 सार्वधातुकार्धधातुकयोः 7.3.84
अनुवृत्तिः गुणः, अङ्गस्य
अर्थः सार्वधातुके आर्धधातुके च प्रत्यये परत इगन्तस्याङ्गस्य गुणो भवति।
उदाहरणम् भवति। भवतः। भव झि इति स्थिते।
389 झोऽन्तः 7.1.3
अनुवृत्तिः प्रत्ययस्य, अङ्गस्य
अर्थः प्रत्ययस्यावयवस्य झस्य स्थाने अन्त इत्ययमादेशो भवति।
उदाहरणम् भवन्ति। भवसि। भवथः। भवथ। भव मि इति स्थिते।
390 अतो दीर्घो यञि 7.3.101
अनुवृत्तिः सार्वधातुके, अङ्गस्य
अर्थः अकारान्तस्याङ्गस्य दीर्घो भवति, यञादौ सार्वधातुके परतः।
उदाहरणम् भवामि। भवावः। भवामः।
July 25, 2010 at 9:12 pm
Your teaching of Samskritha संयक् plus कृतं (संस्कृतं) vyakaranam is really very useful. I was able to get to this website only today. I shall go to the very First lesson and proceed step by step.
Regards,
शेषाद्रि राजगोपाल: