42 अकः सवर्णे दीर्घः 6.1.97
अनुवृत्तिः अचि, एकः पूर्वपरयोः, संहितायाम्
अर्थः अकः सवर्णोऽचि परतः पूर्वपरयोः स्थाने दीर्घ एकादेशो भवति, संहितायां विषये।
उदाहरणम् दैत्यारिः। श्रीशः। विष्णूदयः। होतॄकारः।
43 एङः पदान्तादति 6.1.105
अनुवृत्तिः पूर्वः, एकः पूर्वपरयोः, संहितायाम्
अर्थः पदान्तादेङः अति परतः पूर्वपरयोः स्थाने पूर्वरूपमेकादेशो भवति, संहितायां विषये।
उदाहरणम् हरेऽव। विष्णोऽव।
44 सर्वत्र विभाषा गोः 6.1.118
अनुवृत्तिः प्रकृत्या, एङः पदान्तादति, संहितायाम्
अर्थः छन्दसि भाषायां च अति परतो गोः पदान्तएङ् प्रकृत्या भवति विभाषा।
उदाहरणम् गोअग्रम्। चित्रग्वग्रम्। गोः।
टिप्पणी
45 अनेकाल् शित् सर्वस्य 1.1.54
अनुवृत्तिः षष्ठी
अर्थः अनेकाल् शिच्च य आदेशः स सर्वस्य षष्ठीनिर्दिष्टस्य स्थाने भवति।
उदाहरणम्
टिप्पणी ‘अलोऽन्त्यस्य’ इत्यस्य अपवादोऽयम्
46 ङिच्च 1.1.52
अनुवृत्तिः अलोऽन्त्यस्य, षष्ठी
अर्थः षष्ठीनिर्दिष्टस्य यो ङिदादेशः सोऽन्त्यस्यालः स्थाने भवति।
उदाहरणम्
टिप्पणी ‘अनेकाल् शित् सर्वस्य’ इत्यस्य पुरस्तादपवादः अर्थादनेकालपि सन् ङिदादेशोऽन्त्यस्यालः स्थाने भवति, न तु सर्वस्य।
47 अवङ् स्फोटायनस्य 6.1.119
अनुवृत्तिः गोः, विभाषा, अचि, पदान्तात्, एङः, संहितायाम्
अर्थः स्फोटायनस्याचार्यस्य मतेन अचि परतः पदान्ते गोरवङादेशो भवति विकल्पेन।
उदाहरणम् गवाग्रम्। गोअग्रम्। गोऽग्रम्।
टिप्पणी
48 इन्द्रे च 6.1.120
अनुवृत्तिः अवङ्, गोः, अचि, एङः, संहितायाम्
अर्थः इन्द्रशब्दस्थेऽचि परतो गोरवङादेशो भवति।
उदाहरणम् गवेन्द्रः।
अकः सवर्णे दीर्घः ६।१।१०१।
सवर्णेऽचि परे – कथम्? अकेभ्यः मध्ये अच् किं करोति?
एङः पदान्तादति ६।१।१०९।
एङः – प्रथमा, पदान्तात् – पञ्चमी, अत् – सम्प्तमी
अनुवृत्या सह इदं सूत्रं अस्ति –
पदान्तादेङोऽति परे पूर्वरूपेकादेशः स्यात्।
कथं परे इति अङ्गः इति कर्तारं न अनुसरति? कथं परे इति अति इति अनुसरति? यतो हि पर इति अचः विशेषणः अस्ति।
Himanshu
अकः सवर्णे दीर्घः ६।१।१०१।
सवर्णेऽचि परे – कथम्? अकेभ्यः मध्ये अच् किं करोति?
एङः पदान्तादति ६।१।१०९।
एङः – प्रथमा, पदान्तात् – पञ्चमी, अत् – सम्प्तमी
अनुवृत्या सह इदं सूत्रं अस्ति –
पदान्तादेङोऽति परे पूर्वरूपेकादेशः स्यात्।
कथं परे इति अङ्गः इति कर्तारं न अनुसरति? कथं परे इति अति इति अनुसरति? यतो हि पर इति अचः विशेषणः अस्ति।
6.1.109
एङः – षष्ठी स्थाने
पदान्तात् – पदस्य अन्तः पदान्तः तस्मात् षष्ठी तत्पुरुषः
6.1.101
अचि – सूत्रान्तरात् अनुवर्तते
अधुना स्पष्टम् इति मन्ये